पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (विचारे रगतः प्रवृतिसमर्थनम् । भाव: - अर्थावबोधमुद्दिश्य शब्दोच्चारणेन हेि लोके वाक्थानां तात्पर्यमवगम्य तन्निर्वाः हाथै मुख्यासंभवे लक्षणादिकं परिकल्प्यते; न तूचारणमात्रेण । अत एव 'गौरश्च पुरुषो हस्ती ' इति पदानामुचरणमात्रेण लक्षणा न कल्प्यते । यदा विशिष्टार्थ बोधमुद्दिश्य तेषामुचारणमिति तात्पर्यमवगम्यते, तदैव तन्निर्वाहार्थम्, ' अयं गौवैली. वर्दः, अश्धो वेगवान्, पुरुषो नियतचेष्टः, हस्ती महाबलः' इति गवादिपदा नामध्याहारलक्षणादि कल्प्यते । एवं च वेदवाक्यानामर्थावोधमुद्दिश्योचारणाभावे तात्पयसिद्धया तन्निर्वाहार्थलक्षणागौणवृत्यनुषङ्गाध्याहारव्यवधारणकल्पनोच्छेदप्रसङ्गा दवश्यं वेदेऽप्यर्थावबोधभुद्दिश्योच्चारणस्य वक्तव्यत्वात् वेदे च लोक इच तमुद्देिश्य रागप्रयुक्तोच्चारणाभावाद्विधिप्रयुक्तमेव तदाश्रयणीयमितेि, विधिश्धाध्ययनविधेरन्यो न दृश्यत इति, तेनैवार्थाचबोधमुद्दिश्य गुरुमुखोच्चारणानूचारणरूथमभ्थयनं विधीयत इत्यकामेनापि स्वीकर्तव्यम् । एवं च दृष्टफलेऽप्यर्थावबोधे विधिरन्यतोऽसिध्यतस्ता त्पर्यस्य सिद्धयर्थ इति । । (विचारे रागतः प्रवृत्तिसमर्थनम्)) शब्दस्य बोधकत्वशक्तिस्वाभाच्यादित्यर्थ इति । *लोकव्युत्पत्ति सिद्धस्य शब्दानामर्थपरत्वभ्यौत्सर्गिकस्य वादेऽपि अपौरुषेये तदभावात्; निरपवादस्य स्वत एव समर्थस्यार्थज्ञानोद्देश्यक शब्दोच्चारणस्य विधिनिरपेक्षत्वाच । ननु - शब्दानामर्थपरत्वमावं व्युत्पत्तिसिद्धम् । न त्वन्निहोत्रादिवाक्यं तदर्थविशेषप्रमित्यपि । ततु तत्तदर्थवेिशेषभुद्दिश्योच्चारण मपेक्षत. इति तदर्थोऽध्ययनविधिः स्यादिति चेत् - न; अध्ययनविधिनापि तद लाभात् । न ह्यध्ययनविधिः प्रतिवाक्यं तत्तदर्थज्ञानविशेषद्देिश्ा तद्वाक्योञ्चारणे व्यायिते । 'स्वाध्यायाध्ययनेन यद्वावयितुं शक्यम्, तदनेन भावयेत् ' इतेि विधाने सनि अन्निहोत्रदिवाक्याध्ययनेन न्वायलभ्यतत्तदर्थविशेषज्ञानमेव भवयितुं शक्यमिति तत्तदर्थविशेषे तात्पर्यमर्थतः सिध्येदिति चेत् - तर्हि अग्हिोत्रादिवाक्यानामौत्सर्गिक मर्थपरत्वमेव न्यायपर्यालोचनेन तत्तदर्थविशेषतात्पर्यतया पर्यवस्यतीत्येवास्तु; किमु चारणविधिना ? यदि च लोके दृष्टमित्येतावता वेदेप्यर्थावबोधमुद्दिश्योच्चारणमाद्रियेत, तदा स्वतन्त्रवक्तृविवक्षितेतरार्थावबोधमुद्दिश्य श्रोतृभिश्चारणे कृतेऽपि तस्य वाक्यस्य 1.2. न्यायरक्षामणों पु. २४८ - २५: