पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (समावर्तनस्मृतिविरोधपरिहारः) ४७

  • तून् जुहोति ? त्यत्रेव विभक्तिविपरिणामेन कर्मस्वपरित्यागेन करणत्वस्याश्रय

णीयत्वात् । 'पाठकर्मभूतैलैरर्थज्ञानं भावयेत् ' त्यपि संभवेन प्राप्तपाठकर्मत्वानु वादेनापि दोषाभावाञ्च ! यथा “चरुमुपद्धति ! इत्यत्र 'उपहितेन चरुणा स्थण्डिलं निर्वर्तयेत् ' इत्येवं प्राप्तमुपधानकर्मत्वं द्वितीययानूद्यते, तद्वदिति 'भावः । (समावर्तनस्मृतविरोधपरिहारः) किमभिप्रेत्यैतदुक्तमिति। किमभिप्रेत्य श्रुतिस्मृत्योर्वाध्यवाधकत्वमुक्तमित्यर्थः। ननु – “ अधीत्य स्रायात् ? इत्यादौ * अध्ययनकर्मकां भावनां परिसमाप्य । इत्यर्थः । न तु ' अध्ययनकरणिकामर्थज्ञानकर्मिकाम्' इति । “वाजपेयेनेष्ट बृहस्पतिसवेन यजेत ”, “उचैः प्रवर्येण चरन्ति 1, 'भप्श्ववभृथेन . चरन्ति ? इत्यादाविव तृतीयानिर्देशाभावेन तत्करणिकाया भावनाया असंपतिपतेः। ननु “अन्निचित् वर्षति न धावेत् ” इत्यत्र चयनकरणकभावनाया एव भूताया निमितत्वम्, न धात्वर्थ मान्नस्य भूताय निमित्तत्वम् । ततश्च क्रवन्त एवाझिचिद्रतानेि प्रवर्तन्त इति पञ्चमे स्थितम् । तद्वदिह किं न स्यादिति चेत् - न - अत्र (तद?) * अझौ चेः ?’ इत्यौ कर्मणि चिनोतेः ब्रिविधानात् अनिर्मिकायाश्चयनकरणिकाथा भूताया एव भावनाया निमित्तत्वम् । इह तु, “ वेदमधीत्य लायात् ” इति वेदकर्मकाया एव भावनायाः पूर्वकालत्वं क्त्वाप्रत्ययेन प्रतीयते ; न त्वर्थज्ञानफलकर्मिकायाः । ततश्चाध्ययनविधे!र्थज्ञानफलकत्वपक्षे विरोधः स्यादेवेत्यरुचेराह - किंच विरोधे सत्यपीति । गुरोः कर्मातिशेषेण =गुरुशुश्रूषानवरुद्धकालेनेत्यर्थः । यद्वा अति शेषेण नि:शेषमित्यर्थः । निवेशे हि वृत्ते नैयमिकानीति । निवेशः = विवाहः । ननु “ज्योतिष्टोमेन स्वर्गकामो यजेत ।) इत्यविशेषेण स्वर्गकाममात्र प्रवृत्तत्वात् शूद्रस्यापि स्वर्गकामत्याविशेवदनुष्ठानप्रसङ्गो दुर्वारः, “न शूदाय मतिं दद्यात्' इत्यादिनिषेधस्मृतेः शुश्रूषारहितशूदविषयत्वस्य संभवादित्यरुचेराह - किंच यजमानेनेति । अध्ययनलभ्यत्वादिति । अध्ययनसंस्कृतस्वाध्यायस्य प्रयोजन साकाङ्कस्य स्वाध्यावसाध्यसकलकर्मसु विनियोगो भवतीति भावः । यो ह वा अविदितार्षेयेति । “यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणु वर्छति गर्त वा पतति ? इति प्रसिद्धश्रुतिपाठः। अस्यायमर्थ 1. न्या यरक्षामणौ २५२. पुं .