पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरचेिता आर्षेयः क:ि; छन्दः गायध्यादि; दैवतम् अन्यादिकम् । ; ब्राह्मणं विनि योजकवाक्यम् । आर्षेयादिकमजाननो याजकोऽध्यापको वा स्थावरतां प्राोतेि, गतं वा पतति, म्रियेत वा । अस्य छन्दांसेि निवाणि भवन्ति । जानानस्य तु तद्विपर्ययो भवति । तस्मादेतानि मन्त्रे मंत्रे विद्यादिति । प्रतिग्रहर्तुसंवेशना देरिवेति । न चैतत् रागप्राप्तस्य विधातुभशक्यत्वाच इत्युत्तरग्रन्थविरुद्धमिति वाच्यम् । रागप्राप्तस्य पाक्षिक्यामप्राप्तौ सत्यां विधेयत्वदर्शनात् २गप्राप्तत्वविधेयत्व योनयन्तविरोध इत्येतत्तात्पर्योऽयं ग्रन्थः । उत्तरग्रन्थस्तु रागतो नित्यप्राप्तविषय इत्यविरोधोपपतेः । ननु - एतद्धट्टपर्यालोचनायामर्थज्ञानस्याध्ययनविधिविधेयत्वराग प्राप्तत्वविचार इव प्रतीयते । न चैष युज्यते । अर्थज्ञानस्याध्ययनविधिविधेयत्वस्य मीमांसकैप्यनभ्युपेतत्वात् । अर्थज्ञानस्याध्ययनविधिफलत्वमेव हि तैः स्वीकृम्: न तु विधेयत्वम् । फलस्याविधेयत्वात् । चतुर्थे लिप्सा सूत्रे (४-१-२), “फलं चाकर्मसंनिधौ ) इति द्वैतीयीकाधिकरणे.(२-३-१२), “कर्मणस्वप्रवृत्तत्वात् । इत्याष्टभिकाधिकरणे (८-१-१३) ऽपि फलविधेयत्वस्य प्रतिपादितत्वात् । एका दशावे च फलविधेयत्वस्य प्रतिपादितत्वाचेति चेत् – न - अत्रार्थज्ञानपदेन विचारस्यैव विवक्षितत्वात्। विचारवैधत्वस्य मीमांसकैरभ्युपेततया तस्य रागप्राप्तत्वेन प्रतिक्षेप्यलोपपतेः । किंचानेनैव वाक्येनेति । “ यो ह वा अविदितार्षेय - ); इत्यादिवाक्यविहितार्थज्ञानाक्षिप्तधा विचारस्य प्राप्नध्ययनविध्याक्षेप्चत्वं विचारस्य युज्यते । यथा स्चस्वविधिविहितानां क्रतूनां ज्योतिष्टोमदर्शपूर्णमासादीनाम्धान विििसद्वैरहवनीयादिभिः स्वसाफल्यसिद्धयर्थ नानुष्ठाप्यत्वं तथेत्यर्थः । ननु न हि कर्मणामल्पास्थिरफलत्वमनन्तस्थिरफलत्वं चेत्यत्र पूर्व पक्षसिद्धान्तरूपेण इत्यस्य व्युत्क्रमेणान्वयो द्रष्टव्य । 'स्वरूपे निरूपिते । इत्युक्ते 'स्वरूपमात्रे निरूपितेऽपि कर्मणामल्पस्थिरफलत्वमावृतिविधानादिभिज्ञत्वा इत्यस्यार्थस्याध्याहारसापेक्षतया बिलम्बितप्रतीतिकतया अन्यथा व्याचष्ट - यद्वा कर्म विधिस्वरूपं निरूपितमितेि । अस्मिन् पक्षेऽस्य भाष्यंस्येत्थमवतारेिका - ननु परमात्माराधनकर्मसु, “स्वकर्मणा तमभ्यच्र्य सिद्धिं विन्दति मानवः'इत्यनन्तस्थिरफल तयावगतेषु कथमल्पास्थिरफलत्वावगतिरित्याशङ्कयाह - कर्मविधिस्वरूपे निरूपित