पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (समावर्तनस्मृतिबेिरोधपरिहारः) इति । अस्मिन्नपि पक्षे 'कर्मविधिस्वरूपे ? इत्यस्य परमात्माराधन्त्वविनिमुक्त स्वरूपमात्रेऽवगते अल् स्थिरफलत्वावगतिप्रतिबन्धकपरमात्माराघनरूपत्वप्रतीत्यभावेन अध्यास्थिरफलत्वमवगग्वेत्यस्याप्यर्थस्य विलम्बितमतीतिकत्वमविशिष्टमित्यस्त्ररसेो बोध्यः। केचिदेवं व्याचक्षते - तत्र कर्मविधिस्वरूपे निरूपित इति । विधिश्च स्वरूपं च विधिस्वरूपम् ! कर्मविौ कर्मस्वरूपे च निरुपित इत्यर्थः । प्रत्यब्दं चातुम स्याद्यावृतिविधौ निरूपिते चातुर्मास्थानां क्षयफलत्वनिश्चयो भवति । यदि चातुर्भा स्यानामक्षय्यफलत्वम्, तदा पुनस्तदनुष्ठानवैयथ्र्यप्रसङ्गादित्यवगतेः स्त्र एवोत्पत्तेः । तथा चातुर्मास्यादिस्वरूपं सहस्रसंवत्सरसाध्यविश्वसृजामयनादिस्वरूपं च निम्यग्रता चातुर्मास्यादिग्वल्पवितव्ययायाससाध्येषु , * फलस्य कर्मनिष्पते: तेषां लोकवत् परेि गमतो विशेषः स्खात् ?’ (पू. मी. १-२.१७) इति न्यायालोचनसनाथचेतसा नित्यनैमित्तिककर्माराधितपरमपुरुषानुग्रहलब्धचित्तनैर्मल्येन पुंसा चातुर्मास्यादिकर्मणा मनित्यफलत्वस्य सुज्ञानत्वदिति भावः । येनेति निर्देशो विज्ञानाभिप्राय इति । ततश्च, “प्रोवाच तां तत्त्वती ब्रह्मवेिद्याम् ? इति प्रतिनिर्दिश्यमानाया एव ब्रह्मविद्याया यच्छब्देन पराम्रष्टव्यतया ययेति स्त्रीलिङ्गनिर्देशो न प्रसङ्खनीय इति भाव । अतो निरूप्य संपाथैस्तैरिति । ननु, “ शमदमाद्युपेतः स्यात्' इत्यत्र न शमदिस्वरूपं निरूप्यते, अपि तु शमादेः रुपासनाङ्गत्वम् । तच्च श्रतिबलप्राप्तस्य श्रवणं प्रतेि अङ्गभावस्य नोपजीव्यमिति चेत् न - तत्राविहितविषयव्यापारोपरमः शम इत्यस्यार्थस्य तदधिकरणे व्युत्पाद्यत्वादितेि भावः । “ ब्रह्मविदामोति ? इत्यस्यानन्तस्थिरफलब्रह्मप्राप्तिपर्यन्तप्रामाण्यसंभवे अनन्त स्थिरफलत्वभान्नप्रतिपादनपरत्वमयुक्तमित्यस्वस्सादाह - यद्वा विद्यया अनन्त स्थिरेति । विषयस्य दर्शितत्वादिति । ब्रह्मस्वरूपस्येत्यर्थः । ततश्च “पश्यः ? इति ब्रह्मदर्शनमेव पर्यवस्यतीति भावः । समुचयो युक्त इति । अत्र केचित् ननुच' इति निपातसमुदायेोऽयं नन्वर्थक एव, ततोऽतिरिक्तार्थाप्रतीतेः । ननु शब्दस्य प्रयोक्तृधर्मभूतशङ्काद्योतकत्वेन “ननु च' इत्यस्य 'शङ्का च' इति शब्द तुल्यार्थत्वाभावात् । अतोऽत्र चशब्दस्य समुचयार्थत्वप्रसाधने नातीवाभिनेिवेष्टव्य मिति मन्यन्ते । ननु कर्मविचारनैरपेक्ष्यसिद्धयर्थं कर्मणां वाक्यजन्यं क्षयिफलत्व