पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गराभानुजमुनिविरचिता प्रत्यवतिष्ठन्त इति । अत्र च हेतुरुत्तरत्र स्पष्टः । न समसमुच्चयपर इति । तन्मते, “तमेतं वेदानुवचनेन् ? इत्यत्र * सहयुतेऽप्रधाने' इति तृतीयया वेदनु वचनादीनां “ विविदिषन्ति ? इति निर्दिष्टवेदनापेक्षया अप्राधान्याभ्युपगमेन कर्मणां विद्यायाः फलोपकार्यङ्गवमालस्याभ्युपगतत्वेन तैरपि समसमुच्चयस्यानभ्युपग मादिति भावः । समुचित्योपदेशादित्यत्र समुचित्यशब्दवदिति । इदं हेि वाक्यम्, “ अन्तर उपपत्तेः ?' इत्यधिकरणभाण्यस्थमन्निविद्यात्मविद्याविषयम् । तयो समुचयानभ्युपगमदिति भावः । विशेषणविशेष्यभावेन निर्दिष्टमिति । न च समुचितशब्दो वैषम्यं न सहत इति वाच्यम्, अङ्गाङ्गिसमुच्चयेऽपि समुचयशब्द प्रयोगदर्शनात् । न ह्यत्र समसमुचयः श्रूयत इति भावः । चः प्रतिपादकसमुच्चय इति । श्रुतिसूत्रयोः प्रतिपादकयोः समुचय इत्यर्थः । तज्ज्ञानस्य कथं पूर्व भावित्वमिति । ब्रह्मविचारपुत्रैमावेित्वमित्यर्थः । निरूपयिष्यमाणत्वमभि श्रेत्योक्तमिति । “ अन्तरा चापि तु तद्दष्टः ”, “ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ’ इत्यादावधिकारिविशेषे ब्रह्मविद्यायाः कर्मबेशे पैः समुच्चयतदभावयोः प्रतिपादयिष्य माणत्वादिति भाव । अधिकारिविशेषनिष्ठब्रह्मविद्याया अनिर्दिष्टत्वात्समुच्चयतद भावयोः सामान्येन विद्याविषयत्वमेवोचितमिति मत्वाह - यद्वा नित्यनैमित्तिकयो रितेि । विद्यायाश्चेति शेषः । नित्यनैमितिकाभ्यां समुचयः, न काभ्थनिषिद्धाभ्या मित्यर्थः । पदार्थज्ञानपूर्वकत्वादिति । यद्यपि यज्ञादिपदार्थावगमाय न मीमांसा पेक्षा, व्याकरणकोशाप्तवाक्यादिभिर्युत्पत्तिसंभवात् । मीमांसाया अपि लोकप्रसिद्ध पदार्थव्यवहारितया पदार्थावगतिप्रयोजनकत्वाभावाच --तथापि ग्राह्याग्राह्यकर्मविभागो मीमांसाधीन इति भावः । यद्वा पूर्वमीमांसायामपि, “यजतिचोदना द्रव्यदेवताक्रियं समुदाये ? (४-२-२७) इत्यादिदर्शनात्, व्यापन्नादिपदार्थनिर्णयदर्शनाच पदार्थ निर्णायकंत्वमपि संभवतीत्यपि द्रष्टव्यम् । आशाथभजानानश्चोदयति - ननु गामान येति वाक्यादिति । बांक्यार्थे पूर्वं प्रतिपद्येति । प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य गवानयने प्रवृतिमुपलभ्य * इयं च गवानयने प्रवृतिर्गवानयनकार्यता ज्ञानसाध्या गवानयनप्रवृत्तित्वात् संप्रतिपन्नगवानयनप्रवृतिवत् । इति तस्याः प्रवृतैर्गवा नयनकार्यताज्ञानसाध्यतां निश्चित्य, * तच ज्ञानं वाक्यात्पूर्वमजातत्वात् वाक्यानन्तरं जातत्वाचं वाक्यजन्यम् । तस्मात् गवानयनं वाक्यार्थः ? इति प्रतिपद्येत्यर्थः । ततश्च