पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (लधुपूर्वपक्षघट्ट:) अस्य वाक्यस्यायमर्थः । इतिं वाक्यार्थत्वज्ञानपूर्वकमेव 'अस्य पदस्यायमर्थः । इति ज्ञानम् , न तु * अस्य पदस्यायमर्थः ’ इतिं पदार्थत्वज्ञानपूर्वकम् * अस्य वाक्यम्पाथ मर्थः ? इति वाक्यार्थत्वज्ञानमुत्पद्यत इत्यर्थः ! शब्दज्ञानत्वावच्छिद्रे बृत्या पदजन्य पदार्थोपस्थितेर्हेतुत्वमित्येतदेव हि वाक्यार्थज्ञानस्य पदार्थज्ञानपूर्वकत्वम् । न तु वाक्यार्थत्वज्ञानस्य पदार्थत्वज्ञानपूर्वकत्वम्, येनराशेषस्यावकाशः स्यादिति स्वाशथमा विष्करोति - उच्यते – व्युत्पन्नान् शब्दादिति । व्युत्पत्तावपि न वाक्यार्थ धिय इति । यद्यपि शाब्दज्ञानत्वावच्छिन्ने पदजन्यपदार्थोपस्थितेहेतुत्वकथनेनैव प्रकृतोपयोगसिद्धेब्र्युपतिदशायां वाक्यार्थत्वज्ञानस्य पूर्धभाबप्रत्याख्यानं न प्रकृत उप युज्यते-तथापि पराभिमानखण्डनर्थतोपन्यस्तमिति द्रष्टव्यम् । याज्यापुरोनुवाक्या मन्त्रानुसारेणेति । सरस्वतीदेवयाच्यापुरोनुवाक्ययो: प्राकू पठितत्वादिति भावः । तेनैव क्रमेणानुष्ठानं निर्णीतमिति। श्रुत्यर्थपाटदिक्रमनियामकाभावादनियम ति प्रासे प्रधानप्रत्यासििसद्धयै मुख्यक्रमात् स्त्रीदेवत्यस्य यागस्य निर्वापादयश्चोदकप्राप्ता धर्मा प्रागनुष्ठया इति निर्णीतिं पञ्चमे *मुख्यकमेण वोऽङ्गानां तदर्थत्वात् ' (५१-१४) इत्यत्र । क्रमनियामक (निश्चायक) हेतुवैषम्यमेवेतेि ! दृष्टान्ते याज्यापुरोनु वाक्याक्रमः शेषिक्रमनियामक: ; दाष्टन्तिके तु कार्यकारणभाव इति हेतुवैषम्यमिति भावः । उपासनस्यैव विचारं प्रति शेषित्वादिति । उपासनस्य स्वविचारं प्रत्येव शेधित्वात् शेषिक्रमादापतन् शेषयोः क्रमः शारीरकतृतीयाध्यायकर्मविचार विषय एव स्यात् ; न तु कृत्स्रशारीरक्कर्ममीमांसाक्षिय इत्यर्थः । तदपेक्षि तत्वेनेति । उपासनापेक्षितत्वेनेत्यर्थः । कृत्वाया अपि ब्रह्मामीमांसायाः इत्यस्या नन्तरम् 'उपासनशेषत्वेन' इत्यध्याहर्तव्यम् । यादवपक्ष चोपजीव्येति । सः समुच्चयाङ्गाङ्गिभावयोस्तदभिमतयोरपि प्रतीतेरिति भावः । पार्श्वस्थश्चोदयतीति । यादवानभिमतकर्मविचारपूर्ववृत्त्वोपन्यासात् , सिद्धान्तिप्रन्थत्वे साधनसाध्यद्वित्व निरासकपरिहारग्रन्थासाभङ्गायप्रसङ्गाचेति भावः । चशब्दः प्रतिपाद्यसमुच्चय इति। द्वितीयान्तेनाध्याहृताङ्गभावशब्देन चशब्दस्यान्वय इति भाव । ननु यदा, बाढम् इत्यादिग्रन्थो भास्करसिद्धान्त्यन्यतरोद्यपर , तदा साध्यसाधनद्वित्वनिरासकभाष्य ग्रन्थस्याप्रसक्तप्रतिषेधकत्वं स्यादित्याशङ्कां प्रतिक्षिपति – यदा बाढमित्यादीति । व्यावृत्त्यन्वयरूपा विशेषा इति । भावाभावंरूपा इत्यर्थः । सकलविशेषप्रत्य