पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ श्रीरङ्गरामानुजमुनिविरचिता नीकमित्यत्र विशेषशब्देन स्वगतधर्मस्यापि ग्रहणे तत एव ज्ञातृत्वज्ञेयत्वव्यावृतेरपि. सिद्धत्वात् मालचा ज्ञातृत्वज्ञेयत्वव्यावृत्तिकथमस्वरसमित्यस्वरसादाह---यद्वा सकल विशेषप्रत्यनीकशब्देनेतेि । अज्ञाननिवृत्यन्तर्गतेत्यर्थ इति । मूले सकल भेददर्शननिवृत्तीति कार्यकारणयोरभेदोपचारादविद्यानिवृत्तभेददर्शननिवृत्तिरूपत्वो क्तिरिति भावः । एकस्मादनेकवाक्यानामिति । “विद्यां चाविद्यां च ? इति वाक्यमेक मिति भावः । अस्फुटार्थात् स्फुटार्थानामिति । 'प्राबल्यं विवक्षितम्' इत्यनु षङ्गः । ननु कर्मणोऽन्तवत्वे श्रूयमाणे कथं तत्फलस्यान्तवत्त्वमुच्यते इत्या शङ्कयाह - अनेन वाक्येनेत्यादिना । फलद्वारकत्वमुक्तमिति । कर्मणः स्वत एवान्तवत्वेन तस्यानुपदेष्टव्यत्वात्, “ तद्यथा ” इत्यादिश्रतिवशाच फलस्यैवान्तवत्वम्

  • अन्तवदेवास्य तद्भवति ?) इत्यादिवाक्यप्रतिपाद्यमित्यर्थ । समुच्चयपरवाक्यस्य

श्रुत्यन्तरानुगुण्येनेति । यद्यपि * यदपि चोक्तम्' इत्यत्र 'साध्यसाधनद्वित्वत् कर्मापेक्षितत्वमपि यदुक्तम्' इत्युक्तिक्रियायामेव संमुचयः प्रतीयते, न निर्वाहक्रिया याम्--तथाप्येतत् फलितार्थकथनमितेि द्रष्टव्यम् । 'यदपि चेदमुक्त यज्ञादिकमी पेक्षा वेिद्येति ' इत्यत्र 'यज्ञादिकर्मापेक्षा विचेति यदुक्तम्' इत्युक्ते * यद् विद्यायां कर्मसापेक्षत्वमुक्तम् ? इति सापेक्षत्वस्यैव यच्छब्दनिर्दिष्टतया स्वरसतः प्रतीयमानत्वात् तस्योत्तरवाक्ये विविदिषोपयोगप्रतिपादनम्नुचितमित्याशङ्कय, * यज्ञादिकर्मापेक्षा विद्या । इत्यनया वचनव्यक्तया अर्थाद्विद्यापेक्षितत्वेन यत्किचित्कर्मोक्तमिति कर्मण एव यच्छब्दनिर्दिष्टत्वात् तस्य विविदिवोष्योगप्रतिपादनमविरुद्धमित्यभिप्रायेणाह अनया वचनव्यत्तथेति । निर्देशखारस्यमस्तीति । फलपदस्वारस्यमात्रं नाती त्यर्थः । यादवमतप्रतिक्षेपकतया. प्रथमव्याख्यानम् । अस्मिन् पक्षे फलपदस्वारस्य सति; 'यज्ञादिकर्मापेक्षा विद्या' इति निर्देशस्याङ्गाङ्गिभावसूत्रसारकस्य न स्वार स्थम् । सिद्धान्तिमतप्रतिक्षेपके द्वितीयव्याख्याने 'यज्ञादिकमपेिक्षा विद्या' इति निर्देशस्वारस्यमस्ति ; 'फलपदस्वारस्यं नाति । अत. उभयपदस्वारस्यसिद्धयर्थे भास्करपक्षप्रतिक्षेपपरतया व्याचष्ट – अथवा यज्ञादीति । प्रयाजादिदिति । ननु भास्करेण यज्ञादिवाक्यस्य वेदनं प्रति फूोपकार्यङ्गत्वमालप्रतिपादकृत्वाभ्यु