पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनेिविरचिता पराणीत्यर्थः । भाष्ये – न्याययुक्तार्थग्रहणमिति । तात्पर्यनिर्णायकोपक्रमादि न्यायानुसंधानपूर्वकं सर्वाण्यपि वेदान्तवाक्यान्यात्मैकत्वतात्पर्यकारणीत्येवं तात्पर्य रूपार्थग्रहणमित्यर्थः । न तु वाक्यार्थग्रहणम्, तस्य तन्मते श्रवणफलत्वात् । पूर्वप्रकृतादेवेत्येवकाराभिप्राय इति । यद्यपि ज्ञानकर्मार्थस्वभावः प्रावस्तुतः न तु शमाद्यर्थस्वभावः, व्यक्तिभेदात्--तथाप्यर्थस्वभावत्वेनैक्यमाश्रित्य एवकारः प्रयुक्त इति द्रष्टव्यम् । जिज्ञासानुपपत्त्युपपादकतया 'अर्थस्वभावादेव इत्युत्तरग्रन्थे व्याख्याय, अधुना 'कर्म च पूर्ववृतमस्तु ? इति शङ्कापरिहारपरतया व्याचष्ट - यद्वा अनेन विना जिज्ञासानुपपत्तेरिति । “ अनेन विना जिज्ञासानुप पतेः? इत्यंशस्थ फलितमर्थमाह-शाद्यर्थखभावादित्यर्थ इति । प्रथमस्यैव कारस्य भाव इति । ' अर्थस्वभावातिरिक्तस्य हेतुत्वप्रतिक्षेपक इत्यर्थ । शमाद्यर्थस्वभाव उक्त इति । इदमुपलक्षणम् । तयोगपि स्वभाव इत्यर्थः । तन्न ज्ञानकर्मार्थस्वभावद्वयस्यात्यन्ताप्रकृत्वभभप्रेत्याभिषेतत्वोक्ति ; न त्वर्थ स्वभावशब्दानुक्तत्वात् । अत एवार्थस्वभावशब्दितस्येत्रनिरपेक्षस्य साधनचतुष्टयस्य पूर्ववृतत्वायोगान्ययोगव्यवच्छेदहेतुत्वं वक्ष्यमाणमुपपद्यत इति द्रष्टव्यम् । इदंशाब्दी हि साधनचतुष्टयपूर्ववृत्तत्प परं इति । 'इदमेव पूर्धवृतम् ? इ तीदंशब्दो हीत्यर्थः । तसादिति । शमाद्यथैस्वभावादित्यर्थः । भाष्ये ब्रह्मस्वरूपाच्छादिका विद्यामूलमिति । आच्छादिका च सा अविद्या चेति न कर्मधारयः, येन पुंवद्वा वात् “ आच्छादकाविद्या' इति स्यात् , किंतु “धात्वर्थे खुलू.' इति भावे वुलेि कारिकाशयिकादिवदाच्छादिका। ततस्तादर्थचतुर्थीसमासः। आच्छादनकारिण्यविद्ये त्यर्थ इति एवं । निर्वाहान्तरमपि द्रष्टव्यम् । यद्वा अपारमार्थिकं भेददर्शन मेवेति । बन्धमूलभेददर्शनमपारमार्थिकमेवेत्यभिप्रायः । “एषोऽणुरात्मा चेतसा वेदितव्य ', 'दृश्यते त्वया बुद्धय। ! इत्यादिप्रमाणानुसाराद्वाक्यार्थभावनापरिपाक सहितमन्तःकरणं त्वंपदार्थस्यापरोक्षतत्पदार्थतामाविर्भावयति ” इति वाचस्पतिवचनानु सारेण मनस एव ब्रह्मसाक्षात्कारकारणत्वमिति मन्यमानमप्यनुगृहन्नाह – निवर्तक बोधः प्रमाणजन्य इति यावदिति । दूरस्थान्तिकस्थविशेषणविशिष्ट सोऽयं देवदत्तः' इत्यादिवन्न वैयर्थमित्यर्थः । अभिप्रेत्यशुध्देन शङ्कापरिहार