पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यादावपि यागद्वयविशिष्टतृतीययागविधिसंभवात् वाक्यमेदेन सिद्धान्तोऽनुपपन्न स्यात् । “समिधो यजति ?' इत्यादावपि सन्निादेचतुष्टयबिशिष्टस्योत्तमप्रयांजम् विधेिरित्यापाधतेति चेत् - अत्र केचित् . * ओपेयं घृणीते त्रीन् वृणीते ?' इत्यत्राऽऽ रुग्राभेदसत्वेऽपि त्रित्वविशिष्टार्षेयवरणविधानवत्, “श्रोतव्यो मन्तव्यः” इत्यलापि श्रवणविशिष्टमनििवशङ्काया उत्थितिसंभवदिति वदन्ति । यादवमिश्रोक्तनिर्वाह इतेि । श्रवणमनने अदृष्टार्थतय विधीयेते इति निर्वाह इत्यर्थः । स तु, “नाना शब्दादिभेदात् " इत्यत्र स्पष्टीभविष्यति । व्याख्यास्त इति । अधुना भाण्ये तदध्याख्यानं न दोष इति भावः । द्रष्टव्य इनि तच्यतेति। यद्यपि तन्येनापि रूपं सि ति, अथापि स्वरविशेषमभिप्रेत्यांचायैस्तन्यत्प्रत्यय उपात्तः । केचितु-बृह दारण्यकवाक्ये स्वरसंपतिपत्तेस्तव्यतेति तित्वमविवक्षितम् ; तव्यतयोरन्यतरस्मिन् प्रत्यय उ॥दातव्ये तव्यतः प्रथमोपदिष्टत्वात्तदुपादानमिति मन्यन्ते । आवृत्तिद्वयत्रयच्यावृत्यर्थमसकृदिति सौत्रं पदमिति । यद्यप्यसकृ च्छब्दोऽनेकत्वमात्रपर । अनेकत्यं च द्वित्रादिसाधारणम् - तथापि बहुतरेष्वेव प्रसिद्धिप्राचुर्यादेवमुक्तमिति द्रष्टव्यम् । अत्र आवृतिरिति । आवृत्तिद्वयत्रथध्यावृत्त्यर्थमसकृदिति सैौत्रं पदम् । उपासनशब्दाश्रवणात् सूत्रस्य तत्परत्वमस्फुटमिति तस्यार्थमाह तदिदमिति ? इति पाठः समीचीनः । केचित् –सिंहावलोकेितकेनाह - आवृत्ति द्वयत्रयेती । ति वदन्ति । रात्रीरुपेयादितिवदिति । यद्यपीदं वाक्यं नास्त्येव । ज्योतिर्गौरायु: ) इत्येव त्रिसन्नोत्पतिवाक्यम् । तत्रापि सन्नविषये उपेया दित्येकबचने च न संभवति; उपेयुरित्येवं बहुक्चनान्ततयैव वाक्यस्य कल्पनी यत्वान् - तथापि नोदाहरणमादरणीयमिति न्यायेन, *वैश्वानरं द्वादशकपालं निर्थ पेत् ”, “ यस्मिन् जात एतामिटिं निर्वपति ! इति वाक्यद्वयं दृष्टान्ततयोदाहर्तव्यम् । एतद्वाक्यपूर्वकत्वादिति । 'अथ योऽन्यां देवतामुपास्ते 'अन्योऽसावन्यो ऽहमस्मि ' इति, न स वेद । अकृत्स्नो शेष । आत्मेत्येवोपासीत' इति हि श्रुतिः । सिंहावलोकितकेनाव्याख्यातच्छान्दोग्यवाक्यांशं व्याचष्ट - यस्तद्वेदेत्यादिना । 'यथः मुपदत्तं 1. अन्न छान्दोग्य मध्यपरिष्कारौ द्रष्टव्यौ ।