पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० श्रीरङ्गरामानुजमुनिविरचिता त्रिशेषणाञ्च १ -२.१२. तत्तद्वाक्योदितविशेषणान्तरामति । ब्रह्मज्ञत्वसेतुवादीनीत्यर्थः । उपा स्यत्वोपासकत्वेति । ततश्चोपास्यस्य परमान्मनः उपासक दवीयस्त्वशङ्कनि२साय हृदयगुहायां द्वयोरप्यवस्थितिम् ऋतं पिबन्ताविति वाक्यं प्रतिादयतीति भावः । भप्ये, यस्सेतुरीजानानामिति । यज्वनां सेतुः प्रतिष्ठापक इत्यर्थः । ननु भ:प्ये, इहापिच्छयातपवित्यज्ञत्वमवैज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्येते 'त्युक्तिरयुक्ता। छायांतपशब्दोरज्ञत्वसर्वज्ञत्वपरस्वस्य पूर्वपक्षिणे प्रत्यसिद्धत्वेन विशेषणस्य हेतू करणसंभवादित्याशंक्य छायातपशब्दोज्ञाविति श्रुतिसारकतया हेतूरणं संभवतीत्याह- अज्ञत्वसर्वज्ञत्वाभ्यामित्यनेने देना । भाप्ये सर्ववेद दक्षिणक्रतुसमाप्तिवेलायामिति । अत्रोप्युक्ता श्रुतिर्लिख्यते उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । । उशन् कामयमान इत्यर्थः । तस्य ह नचिकेता नाम पुत्र आस। तं हृ कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धा विवेश । सोऽमन्यत । पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियः । अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्? ! जरद्धवीः प्रयच्छन् अनन्दान् सुख हिान् लोकान् प्रामतीत्येवममन्यतेत्यर्थः । * स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयन् तं होवाच, मृत्यवे त्वा ददामीति ? । एवं पित्रा कुतेिनोक्तो नचि केलl: परिदेवयांचकार , : बहूनामेमि प्रथमो बहूनामेमेि मध्यम । किं स्विद्यमस्य कर्तव्यं यन्मथाद्य करिष्यती ? ति । अहं बहूनां पुत्राणां शिष्याणां वा मुस्यो मध्यमो वा; न सर्वथा अधमः । ईदृशमपि मां कुतो यमाय प्रादात् । तस्य वा प्रतेन मया किं प्रयोजनमित्यर्थ । अथापि . पितृवचनं मृषा मा भूदितेि. मत्वा किं मयोक्तमिति शोकविष्ट पितरमाह –“अनुपश्य यथा पूर्व प्रतिपय तथा परे । सस्यमिव मत्थैः पच्यते सस्यमिवाजायते पुनः । । पूर्वेषां पितृपितामहादीनां वर्तमानानां च साधूनां चरितानि शरीरानित्यतां च ज्ञात्वा यमाय मां प्रेषयेत्यर्थः । एवमुक्तेन पित्रा प्रेषितं यभवनद्वारि तिस्रा रात्रीर्वसन्तं दृष्टा, प्रेष्यागतं यमं प्रति आर्याणां वाक्थम्, 'वैश्वानरः भविशत्यतिथिब्रह्मणो गृहान् । तस्यैतां शान्ति कुर्वन्ति हर वैवस्वतोदकम्' । अध्यदिपूजां कुर्वित्यर्थः । अकरणे प्रत्यवायं चे चुः, 'आशा