पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता व्यपदेशेनेयादिना । अविद्यानिवृत्ताविति । जीववैलक्षण्यपतिपतिमूलपुरुषार्थत्व प्रलिपत्य अपुरुषार्थत्वकल्पकाविद्यानिवृत्ताबपुरुषार्थत्वमपि निवर्तते । अतो भेद निर्देशस्य सार्थकत्वमिति भावः । प्राप्यतया पुरुषोत्तमप्रसङ्ग इति । जीवपकरणे पुरुषोत्तमप्रतिपादनं प्रासङ्गिकमिति भावः । प्रथमानिर्दिष्टति । प्रथमानिर्दिष्टपरामर्श विभक्तयैकरूप्यसद्भावात् । अत एव , 'प्रजातिर्वरुणाथाश्वमनयत् स स्वां देवता मार्छत् इत्यत्र प्रथमान्तच्छस्य विभक्यैकरूप्येण प्रजापतिपरामशिंसमिति भावः। ब्रह्मात्मकत्वषरं स्यादिति । स इत्यस्य तच्छरीरकपरमात्मपरत्वमस्त्वित्यर्थ । प्रकृताहाणादिति । प्रथमानिर्दिष्टसंप्रसादाग्रहणादित्यर्थः । यधिकरण्येनेति । उत्तमपुरुषपर्यन्तत्वमन्तरेण जयमात्रपरामर्श इत्यर्थः । समानाधिकरणमस्त्विति चेदिति । स तल पर्यतीत्यत्रापि प्रथमान्तच्छब्दस्य उत्तमपुरुषपर्यन्तत्वमेव । एवं च न रीतिभेद इति भावः । नोपजनं सरन्नित्यस्येति । स्त्रीपुंसयोरन्योन्योप गमेन जायत इति अपुरुषार्थत्वयैवोपजन्शब्दार्थत्वदिति भावः । ननु स्मरणे को दोष इत्यत आहु अनुभूतस्य हीति । आकाशब्दं प्रकाशकालोकादिपरतया व्याख्याय प्रकाशमानरूपतया व्याचष्ट प्रकाशमानं रूपं वेति । पक्षद्वयेऽपि प्रकाशयतीति पदमध्याहरन् श्रोजयति प्रकाशयतीति। ततश्च यत्रोपकरणत्वेनानुविषण्णं चक्षुः आकाशम्-आलेोके रूपं वा प्रकाशयति, स चक्षुषः-चक्षुरुपकरणकः पुरुष आत्मा! चक्षुरुपकरणकमुद्दिश्यात्मवै विधेयम् । 'स आत्मा गन्धाय भ्राणम्’इत्य द्यु तरवाक् सारूप्यात् । इयञ्च भङ्गी संमतिपन्नसर्वप्रकाशकभावालोकप्रकाशकचक्षुरुष करणत्वेनामातिशयद्योतनार्था । भाष्ये ज्ञानिनो जानन्तीत्यभिधायेति । अत्र तं वा एतं देवा आत्मानमुपासत इति देवशब्दार्थमभिप्रेत्य ज्ञानि इत्युक्तम् । अन्यार्थश्च परामर्शः १-३-१९ अनुपास्यजीवात्मविज्ञानेति । परमात्मन एव मोक्षार्थोपासनकर्मयाँ जीवो सनस्य कोपयोग इति भावः । एवमुक्तस्त्राऽपि ज्ञानपदमुपासनपरं द्रष्टव्यम् । ननु त!ि विशेषणतया जीोपासनविधानादेव जीवस्योपास्यत्वे वक्तये प्राप्यान्त भर्भावरूपयुक्तिबलात् उपास्यत्वकथनं विमर्थमित्यर्थः । उच्यत इति । सूत्रकृता तथा प्रतिपादितत्वात् सैव रीतिर्भाण्यकृताऽनुमृतेति भावः । 'आत्मेति तूपगच्छन्ति