पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिोका ( इक्षर'धिकरणम् १.३-५) ग्राहयन्ति चे' ति सूत्रस्थायमर्थः – परमात्मान्मुपास्यमात्मत्वेनोपगच्छन्ति पूर्वे उपालितारः ; शाल्वाणि च तथैव ग्राहयन्तीति । व्यतिरेकस्तद्भावभावित्वादिति । तत्र हि, आत्मेति तूषगच्छन्तीत्यधिकरणसिद्धं जीवोपास्यत्वमङ्गीकृत्य किं कर्तृ त्वादिविशिष्ट सांसारिकं स्वरूपमुपास्यम्, टत तद्वयतिरेक इति विशये, 'कर्तृ त्वदिविशिष्टमेव रूपानुसन्धेयम्, शरीरे वर्तमानस्य उपासितुरात्मनः तथाभावादित्येके मन्यन्त' इति, 'एक आत्मनश्शरीरे भावा दिति सूत्रेण पूर्वपक्ष कृत्वा-सांसारिक रु५व्यतिरेक एवानुसन्धेयः; तथासत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपरूपफल प्राप्तर्भावित्वादिति, * व्यतिरेकस्तद्भावभावित्वात् ? इति सूत्रेण सिद्धान्तिलमित्यर्थः । अङ्गिनः फलमेवेति । ननु प्रजापतिविद्यायास्तदङ्गत्वे दहरब्रहविद्याधिकृता यैवोपदेष्टव्या स्यात्, उपकोसलविद्याङ्गभूनाभिविद्यावत् । प्रकृते च दहरब्रह्मविद्या विधुराय इन्द्राय उपदिश्यमालेयं विद्या न ब्रह्मविद्याङ्गं भवितुमर्हतीति चेन्न प्रजातिवाक्यस्य, ,' एध संग्रसाद ' इति द्वहरविद्यावाक्यान्तर्गतसंप्रसादशब्दार्थ शोधनार्थं प्रधृत्ततया तदेकवाक्यत्वेन तादथ्र्ये सिद्धे इन्द्रस्यापि दहविद्या पश्चादुप दिष्टयेवावगम्यत इति न कश्चिोषः । अल्पश्रुतेरिति चेत् तदुक्तम १-३-१० दहर उत्तरेभ्य 'इति सूत्रार्थमभिप्रयाह आकाशोपमानेत्यादिना गुणाष्टकेत्यन्तेन । गतिशब्दाभ्यामिति सूत्रार्थमभियन्नाह गतिशब्देति । धृतेश्धति सूत्रार्थमभिप्रयन्नाह विधरणत्वेति । अन्यार्थश्च परामर्श इति सूत्रार्थमभिप्रयन्नाह फलविशेयेति । आकाशोपमानादिः फलविशेषान्ती द्वन्द्वः । एतावदर्थपरं यन्महा चाक्यम्, तत्स्वारस्यदर्शनादित्यर्थः । ननु मा भूदर्भकौकस्त्वादित्यतो गतःार्थत्वम् ; अथाप्यु क्रममालस्स, म्हावाखयस्वारस्यबाध्यत्वम्, ‘प्राणस्तथानुगमादित्यत्रैव सिद्धमिति तेन गतार्थता स्यादैवेत्याशङ्कह उपसंहारे जीवपरामर्शादिति । ननु यद्युत्संहारे जीवपरामर्श सत्यपि प्रक्रमस्थस्य महावाक्यस्वारस्येन बाधः, तर्हि प्राणस्तथानुगमादित्यधिः करणपूर्वणो दण्डापूपन्यायहतः स्यादिति चेन्न-प्रक्रमश्रुतजीवमुख्यप्राणलिङ्गानां दहरत्नादिवदनन्थशासेिद्धतया अनेनापि तस्य गतार्थत्वाभावादिति भावः । अर्भकौ ]