पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता प्रमिताधिकरणम् (६) शाब्दादेव प्रमितः १-३-२३. भगवत इत्युक्तमिति । भगवतोऽपि संभवतीत्यर्थः । भगवत्यल्यत्व संभबमालपरत्वात् तस्येति द्रष्टव्यम् । परभात्मव्यतिरिक्तस्य । दृश्यत इति जीबस्यैव दृश्यत इत्यर्थः । ततश्चाङ्गुष्ठमलित्वरूपपरिमाणविशेषस्य दहत्त्व परामात्मन्यसंभवात् अङ्गुष्ठप्रमितो जीवो भवविति शङ्कया सङ्गतिरिति भावः । भाप्ये न ततो विगुप्सत इति भूतभव्येशानत्वादेव ईशितव्यविषये हेयेऽपि जुगुप्सा नास्तीत्यर्थः । स एवाव स उ श्वः = सार्वकालिक इत्यर्थः, प्रबृहेदिति पृथकुर्यादित्यर्थः शरीरभूत् स्वस्माद्विविक्त जानीयादित्यर्थः । शुक्र भापमित्यर्थः । न तु स्थानविशेष इति । स्थानविशेषरूपेपधिश्रवणे हि महत्यपि परमामन्यल्प परिमाणोक्तिर्युज्यते, स्थानविशेषरूपोपविश्रवणाभावेन, ‘औपाधिकपरिच्छेदोक्तिरित वक्तमशक्यत्वात् जीव एवेयुक्तमित्यर्थ । “युक्तं परमात्मनः पूर्वाधिकरणेोक्तं हृत्पुण्डरीकस्थानत्वम् , परमात्मस्थानभेदनिर्देशात्, तद्धि नस्योपलब्धिस्थानम् सालग्राम इव कमलनाभस्य भगवतः । । न चेह तथाङ्गुष्ठमात्रश्रुतौ स्थानभेदो निर्दिष्टः; परिमाणमात्रनिर्देशात् । न च' ' मध्यअस्मिनी ? त्यत्रापि स्थानभेदोऽव गम्यते । आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मावचनो वा स्यात् । तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य . च भवितुरनिर्देशात् न ज्ञायते कस्य मध्य इति; न च जीवपरयोरति मध्यमञ्जसेति नैष स्थाननिर्देशी वेिस्पष्टः; स्पष्टस्तु परिमाणनिर्देश । परिमाणमेदश्च परस्मिन्न संभवतीतेि जीवात्मैवाङ्गुष्ठमात्र ') इति वाचस्पत्युक्तरिति भावः । न चोपासनमिति । ननु परसिद्धान्ते अस्य वाक्यस्य जीवस्य परमात्मत्वोपदेशपरत्वेनोपासनविध्यनभ्युपगमेऽपि, पूर्वपक्षे उपासनविधिर्न प्रत्याख्यातः । अत एव पूर्वपक्षेोपसंहारे जीवात्मैवोपास्य इति वाचस्पतिनोक्तम् । ईशानोऽम्भते ध्याने फलतीत्यानन्दगिरिणाप्युक्तमिति चेत् अत्र केचित् – न चोपासनिित ग्रन्थ पूर्वपक्षमित्यस्यानन्तरं केचिदाहुरित्यस्मात् पूर्वं निवेशनीय । ततश्च जीवत्वं शङ्कयः इति पूर्वपक्षे सिद्धान्ते उपासनं नास्तीति चाहुरित्यर्थ इति वदन्ति । अन्ये तु, नायं मृषावादिमतानुवाद इति वदन्ति ।