पृष्ठम्:भावप्रकाशिका-भागः २.pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३० आर्षेयवरणशब्दार्थः । तत्र के ऋ िवृणीते, द्वावृी दृणीते, त्रीन् ऋषीन् वृणीत इति वाक्यत्रयेण त्रीणि बरणनेि विहितानि । ततश्च चरणलयस्यापि अङ्गतया एकॉर्षयद्वद्याधेययोः 5यार्षेयवरणाभावेपि एकद्रयाषेवरणसंभवादधिकार इति पूर्वयक्ष कृत्वा-अस्मिन् वाक्ये विवित्रयाभ्युपगमे वाक्यभेदप्रसङ्गात् . 'तीन् वृणीत' इत्येव विधिः । त्रिषु च एकस्य द्वयोरथन्तर्भावात्, एकं वृणीते द्वैौ वृणीते इत्यनुवादः। ततश्च वैयवरणमेवाङ्गम् । तद्रहितानामार्षेयवरणवत्सु कर्मसु नाधिकार इति स्थितमित्यर्थ । ननु उपनयनङ्गकाध्ययनजन्यज्ञानाभावेऽपि देवादीनामधिकारे शूद्रस्याप्यधिकारः स्यादित्याशयमुद्धाट्य निराकरोति न चोपनयनविरहादिति । न् ५ सामाथ्याभावानुगृहीतेति । अयं भावः-त्रैव काधिकारिकोपनधनाङ्गका ध्ययनलब्धविद्यालक्षणसामथ्र्याभावादनधिकार इति पूर्वमीमांसकैर शूद्राधिकरणे यदु पन्यस्तम्, तदभ्युवयमास्रम् । प्रधानयुक्तिस्तु, 'तस्मात् शूद्रो यज्ञेऽनबलप्तः इत्याहत्य यज्ञादिप्रतिषेध एव । तथा हेि – वर्णविशेषादिग्रहणमन्तरेणाविशेष प्रवृताः वैदिककर्मविधयः, कर्मानुष्ठानार्थेऽनुष्टयार्थज्ञानसंपन्नान् अधिकारिणोऽपेक्ष मणः स्वत एवाध्ययनविधिलब्धानुष्ठयार्थज्ञानान् द्विजातीनासाद्य निवृण्वन्ति; न तु फलकाम्स्वाविशेषेऽपि शूद्रस्य.धिकारित्वेन सङ्गहाथै अनुष्ठयार्थज्ञानमाक्षि पन्तीति हि शूद्रस्यानधिकारे श्रुतिर्वक्तव्या । न सा युऽयते ; अध्ययनविश्रेरर्थ. ज्ञानपर्यन्तत्वे हि वि थन्तरलब्धार्थज्ञानं नैवकेिषु सिद्धमिति युज्यते तुम् । न वैदतस्ति । अध्ययनविधेरक्षरग्रहणमात्रवेिश्रान्ततया त्रैवर्णिकेष्वर्थज्ञानस्य विध्यन्तरसिद्धत्वाभावेनाक्षेप्यत्वाविशेषात् शद्वेष्यपि हि तदाँक्षे : संभवत्येव । अग्तु वाऽयमध्ययनविधिः अर्थज्ञानभाव्य : । तथापि शूद्रस्यानिवार्योऽधिकारः । ऋतुविद्याविधिभिः त्रैवर्णिकानां स्वशाग्वेरशास्त्रविहिताङ्गगुणोपसंहाराय तत्तच्छाखा ध्यायिभ्यः तत्तदङ्गगुणज्ञानस्येव शूद्रस्यापि धिभिस्तज्ज्ञानस्य क्षेप्तुं शक्यत्वत्। अध्ययनविधिना खेकस्या एव शाखाया अध्ययनं विधीयते, प्रतिव्यक्ति घटत्वस्येव प्रतिशाखं स्वाध्यायत्वस्यापि परिसमाप्तत्वात् । ननु शूदस्य कर्मोपासनानुष्ठानापेक्षित ज्ञानं कास्न्येनापेक्षणीयम् । वैवर्णिकानां स्वशाखेतरशाखाविहितगुणविषयस्त देकदेश इति आक्षेपलाघवात्, क्रतुविद्याविधयः त्रैवर्णिकानेव अधिकुर्युः; न