पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ श्रीरङ्गरामानुजमुनेविरचिता निश्चयरूपज्ञानस्य विचारमन्तरेणेतिहासपुराणाश्रवणमात्रेणासिद्धेः शूद्रस्य विचार प्रयोजकाभावात् कथं सामथ्यैमित्याशङ्कय इतिहासपुराणश्रवणस्य दृष्टार्थत्वेनानुष्ठानौ पंकज्ञानार्थतया तस्य तद्विचारभन्तरेणासिद्धेः त्रैवर्णिकानां वेदान्तविचारवत् शद्रस्येति हासविचाः सिद्धयतीत्यभिप्रयहि यदावैवमिति । शङ्कते यदियादिति । [यादि यात् ] तदा किमुत्तरमिति चेदित्यध्याय योजना द्रष्टव्या। श्रवणंफलनिर्देशादिति। अविहितस्य श्रवणस्य फलश्रवणासंभवात्, श्रवणे विधिरभ्युपगम्य इति भावः । तहिं शूद्रस्य कीर्तनमपि स्यादिति शङ्कां वारथतिं श्रबणकीर्तने हीति। ननु फलनिर्देशान्यथा नुपपत्था अस्सु श्रवणस्य विधेयत्वम्; नैतावतऽर्थज्ञानफलकत्वसिद्धिः ; नामसहस्रमात्र श्रवणफलनिर्देशतयाप्युपपतेरिति चेन्न-श्रवणस्य फलनिर्देशान्यथानुपपत्या विधेयत्व सिद्धौ श्रब्रणस्य ज्ञानरूपदृष्टार्थत्वे संभवति पापक्षयरूपादृष्टार्थत्वकल्पनाया अन्याय्य त्वात् अर्थज्ञानपर्यन्तत्वमिति भाव । अनधिकारो निणतश्रेदिति | अध्ययन गृहीतवेदजन्यज्ञानस्यैव वैदिकर्मानुष्ठानोपयुक्तत्वम्; नेतरस्येति पूर्वतन्त्रापशूद्रधि करण एव निर्णीतवादित्यर्थः । अपशूद्राधिकरणन्यायाप्रवृत्ताविति । युक्तिमाहे त्यन्वयः । तत्रापरिहृतामिति । पूर्वतन्त्रापशदधिकरणे अपरिहृतामित्यर्थः । निर्वाह एव सौत्र इत्यस्यानन्तरं तस्मादिति शेषःपूरणीयः। अलौकिक सामथ्यभावादिति । अध्ययनगृहीतस्वाध्यायजन्यज्ञानरूपशास्त्रीयहेत्वभावादित्यर्थः । भाष्ये, यथैव हि वर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसंपाद्यज्ञानलाभे नेति । ननु स्वाध्यायाध्ययनविधौ लैवर्णिकोऽधिकारी न श्रूयत इति चेत्-सत्य मध्ययनविधौ त्रैवर्णिकोऽधिकारी न निर्दिष्टः--तथाप्युपनयनविधौ, “वसन्ते ब्राक्षण मुपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यम्':ति त्रैवर्णिकधिकास्विश्रवणात् त्रयाणामेव वर्णानामुपनयनमिति सिद्धम् । ततश्च स्वाध्यायविधिरनिर्दिष्टकर्तृकः कर्तारमपेक्षमाणः प्रकृतोपनयनसंस्कृतान्, “विमर्थ वयमाचार्यसमीपं नीताः' इति प्रयोजनमपेक्षमाणान् ब्राह्मणादीनेव कर्तृत्वेन स्ीकुर्वन् तेषामेब्राध्ययनं विधत्, न शूद्रस्येतेि अध्ययन विधेरपि त्रैवर्णिकविषयवं युज्यत इति द्रष्टव्यम् । अत्र विधिसिद्धत्वं स्वाध्णयस्य विशेषणम्; न तु तत्सम्पाद्यज्ञानस्व; सिद्धान्ते अध्ययनविधेक्षराशिग्रहणमात विश्रान्तत्वेन अर्थज्ञानफलकत्वाभावात् । नन्वध्ययनविधेरर्थज्ञानपर्यन्तत्वे हि वर्ण