पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) ५४७ विशेषादिग्रहणमन्तरेणाविशेषप्रवृत्त अपि वैदिककर्मविधयः कर्मानुष्ठानार्थमनुष्ठेयार्थ ज्ञानं नक्षिपन्ति । यथा क्रतुविधयो याजकान् अपेक्षमाणाः स्ववर्णोचिनद्रव्यार्जनोपाय इति यावने स्वत एव प्रवृतान् ब्राह्मणान् आसाद्य निवृण्वन्ति, न त्वध्ययनवत्वेपि क्षत्रियवैश्ययोर्याजकत्वमाक्षिपन्ति ; ततश्च, 'याजनाध्यापनप्रतिग्रहैब्रह्मणो धनमार्ज ये 'दिति द्रव्यार्जनोपायनियमविधिबलात् ब्राह्मणानामेवात्विज्यमिति नियमः-- तथा अध्ययनविधिबलादध्ययनलब्धानुष्ठयार्थज्ञानवतामेव वैदिककर्मानुष्ठानमिति नियमलाभ इति शक्यते वतुम् । अध्ययनविधेरक्षरराशिग्रहणमात्रविश्रान्तत्वे क्रस्यापि विधि लब्धज्ञानस्याभावात् ज्ञानाक्षेपस्यच सर्वत्र संभवात् कथमपशूद्रभधिकारः स्यादिति चेत्-सत्यमस्मन्मते ज्ञनं न विधिसिद्धमिति । अथापि हेतुसाकाङ्गं कर्मानुष्ठानौपयिकं ज्ञानं प्रयोजनान्तरासंयुक्तं, प्रयोजनसाकाङ्कम्, अध्ययनसंस्कृतं स्वाध्यायमेव हेतुः तया स्वीकरोति; न तद्वयतिरिक्त ज्ञानोपायान्तरम् । ततश्चाध्यथनजन्यज्ञानमेव क्रत्वङ्गमिति पर्यवस्यति । यथा विहाराधिकरणे (१२ - २ - १) असंयुक्तो त्पन्नानामाधाननिष्पाद्याहवनीयादीनां प्रयोजनसाकाङ्काणां लौकेिष्वपि चन् प्रकाशनेषु विनियोगोऽभ्युपगन्तव्य इति पूर्वपक्षः प्रवर्तितः, तेन न्यायेनाध्ययन् संस्कृतस्वाध्यायस्य प्रयोजनसाकाङ्कस्य हेतुसाकाङ्के कमौपयिकज्ञाने विनियोग इतिं सिध्यतेि । ततश्चाधीतवेदानामेव त्रैवर्णिकानां कर्मस्वधिकार इति सिद्धौ न सिद्धान्तेऽनुपपत्तिः । अध्ययनव्रतोपनयनाद्य उच्यन्ते इति । अध्ययनाङ्गं व्रतं अध्ययन ऋतम्; अध्ययनस्य उपायशब्देनोपातत्वादिति द्रष्टव्यम् । यद्वा उपायशब्दो वेदपर, आदिशब्देन अध्ययनं गृह्यत इत्यभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । अत्र चोपनयनपदं लेखकप्रमादादागतम् । ब्राह्मणादिवर्णमात्रविषयतयोत्पन्नस्योपनयनस्य शूद्र आक्षेपप्रसक्तः । अपश्शूदाधिकरणे .िद्वेषा. पूर्वपक्षेो वर्णितः-अनारभ्याधीतमप्य ध्ययनं क्रत्वनुष्ठानौपयिकज्ञानोपयंगित्वात् क्रत्वङ्गम्, क्रतवश्चाविशेषेण चातुर्वण्यमधिः कुर्वाणाः चतुर्णामध्ययनं प्रयुञ्जते । तत्र च त्रय्यामुपनयनसंस्कारोऽध्यनाङ्गतया विधीयते, । चतुर्थस्तु संस्कारवेिध्यभावात् अनुपनीत एव । स्वयमेवोपगम्या धीत्य वेिद्यां लभताम् । ':अथवा; : अनारभ्याधीमध्ययनं पुरुषार्थमेव ; : न