पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरंङ्गरामानुजमुनिविरचिता त्वङ्गम् । अतः तदभावेऽपि क्रतोगुण्थाभावादनधीतवेद् एव शूद्रः पुस्तक निरीक्षणदिन विद्यां लब्ध्वाऽधिक्रियतामिति । ततश्च पक्षद्वयेऽपि शूद्रे ब्राह्मणादि संयुक्तोपनयनाक्षेपासक्तरिति घेपथम्। नापेक्षन्त इत्यर्थ इति । शत्रे ज्ञानं तदुपायादींश्च' नांक्षिपन्तीत्यर्थ इंत्यर्थ । अध्ययनस्यापि प्रयोजकतयेतिं । कर्मविधीनामेव शूद्रगताध्ययनप्रयोजकत्वकल्यनायां गौरवमित्यर्थः । सौधन्वत्वमनु कूललिङ्गमिति । ‘ऋभवो नेमिं नमन्ती'त्यादिमन्त्रलिङ्गान् नेमिनिर्माणचतुरस्य ऋभु शन्दवाच्यत्वावगमात् “ सैौधन्वना ऋभव ! इति मन्त्रे तत्समानाधिकरणतया सौभव शब्दस्य श्रवण त् । पत्यां तु जातो वैश्यानां(यां?) सुधन्वाचार्थ एव चे'त्याचार्यत्रभु शब्दापरपर्थायसौधम्बब्दितजातिविशेषस्य ग्रहणमिति भाव । नन्वस्यार्थस्य, 'गुंग स्ये' ति सूत्राभिप्रेतत्त्रे तद्वद्याख्यानसमय एव वाच्य इत्याशङ्कधाह इह प्रतिपत्तीति । न हि व्याख्येयानधिकारेिण इति । नन्वितिहासपुराणादिकं वेदवाक्यप्रतीकग्रहण पूर्वकम्, अंस्य पदस्यायमर्थ इत्येवंरूपं व्याख्यानं न भवति, येन वेदसापेक्षता स्यात् । अतोऽन्धीतवेदस्यापीतिहासपुराणादिना स्पष्टार्थावगतौ नानुपपत्ति : । अत एवाङ्गतय विहितस्य स्वतन्त्रतयेत्याद्यत्तरयुक्तिरप्यनुपपन्ना ; शूद्रश्रावणंविध्यनुरोधेन स्वतन्त्रतयो पादानस्याप्यङ्गीकर्तव्यत्वात् । शूद्रश्रावणंस्य दृष्टर्थत्वसंभवे सति अदृष्टार्थत्वकल्पनया अन्याय्धतया अनुष्ठयोपासनानुष्ठानाद्यर्थत्वस्यैव युक्तत्वादिति चेत्-सत्यम्; * नाशुभं प्रमयत्किश्चित् सोऽमुलेह च मानव ; इत्यादिषु पापक्षयफलकत्वस्यैव स्पष्टमम्नानेन तस्यैन, फलत्वात् । अत एवोक्तम्, पुण्यकथावगतिद्वारेण पापक्षयफलार्थमि द्रष्टव्यम् । तदविरोधस्येति । वेदार्थविशदीकरणहेतुतयैव तदधिगमविधाथकशास्त्रा विरोधस्येत्यर्थः । श्रवणविध्यवैयथ्यांचेति । शूद्राणमितिहासपुराणश्रवणस्य निष्फलत्वे श्रवणविधेयथ्र्यप्रसङ्गदित्यर्थः । शौनकाचनविरोधादिति । ननु चपन विरोधाद्विदुरादीनां तथास्तु नाम, तथ | पूर्वजन्मानुष्ठितकर्मभिर्विशुद्धचित्तानामुत्पन्न ब्रह्मविविदिषाणां प्रारब्धवशात् शूद्रजन्म प्राप्तानामितिहासपुराणविगतब्रह्मस्वरूप तदुधासनप्रकाराणां कुतो न ब्रह्मविद्यायामनधिकारः ? न चोक्तरीत्या यज्ञादिकर्मण्य प्यधिकारः स्यादिति शङ्कयम् –“ तस्माच्छूद्रो यज्ञेऽनवंबलप्त ? इति यज्ञादौ विशेष