पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अपशशूनाधिकरणम् १-३-९) निषेधदर्शनात् उपासने तादृशनिषेधादर्शनात्, नारदस्य. प्राचीनजन्मनि यतिमि रुपदिष्टाच्युतोपासनायाम्, शूद्रोचितसंस्कारपूर्वकं शैवपाशुपतपाञ्चरात्राद्युपदिष्टासु प्रणवरहिताष्टाक्षरपञ्चाक्षरमन्त्रकरणकविष्णुशिवोपासना अधिकारो न निवायेः । न चैतनधिकरणविरोधः; शूद्रस्येतिहासादिमूलाधिकारसत्वेऽपि चेदमूलस्वर्गविद्याधधिकार निवारणार्थत्वादस्वाधिकरणस्य । अत एव वेदश्रवणादिप्रतिषेधः सूतकृनाप्युपन्यस्त इति चेत्-उच्यते-विशिष्य ब्रिहितेषु शैवाद्यानिर्दिष्टपूपायनेषु न शूद्राद्यधिकारं प्रतिक्षिणमः; अपि तु सामान्यतः श्रुतेषु : ब्रह्मोपासनेषु यज्ञाद्रिष्विव नाधिकार इत्येवह्निसाधयामः । न च, * तस्मात् शूद्रो यज्ञेनवक्लप्त ’ इति वचन त् यज्ञानविकारेऽपि उपामने कुती नाधिकार इति शङ्कधम्- तस्य वचनम्यापशूद्राधि करणन्यायसिद्धार्थानुवादित्नात्; :यायस्य च कर्मब्रह्मोपासनसाधारण् त् । केिञ्च,

  • नास्याधिकारो धर्मेऽस्ति नाधर्मात् - प्रतिषेधनम् ? इति ििशष्य विहितेतरेषु

धर्मेषु शूद्रस्यानधेि फार इति मनुसरणादिति द्रष्टव्यम् । अतः शूद्रस्य न ब्रह्मविद्याधिकारः। ५४९ शोककारणं शोककार्यच हेतुत्वेनाहेति । कार्यकारणयोर्द्धयोरपि लिङ्गविधया ज्ञापकत्वसंभवेन हेतुत्वसंभवात् सूखे ज्ञापकहेतौ पञ्चमी । ततश्चानादरश्रवणाद्रवण रूपलिङ्गाभ्यां कारणकार्यरूपाभ्यां ज्ञाप्यमानेत्यर्थ । अनदरश्रवणजन्या आद्रवण हेतुभूता शुक् शूद्रेत्यामन्त्रणेन सूच्यत इति सूत्रार्थ इति भावः । भाष्ये शुचेर्दथेतीति। अस्य सूत्रस्य धातुवृत्तौ शूद्वशब्दव्युत्पादनावसरे उदाहूतत्वात् प्रक्षिप्तत्वं वदन्ती निराकृता इति वेदितव्यम् । आद्रवणमप्यन्तर्भाव्येति ! शुचा द्रवतीति शूदाब्द व्युत्पत्तिः पैरराट्टतेति भावः । ननु हंसोक्तानादरश्रवणे जानश्रतेः कथं शोकहेतु महात्मनां हि येन केनपि कृता निन्दा शोकाय नावकल्पते ; प्रत्युत तोषायैव । स्मरन्ति च भन्वादयः, “ अवमानात् तपोवृद्धिः संमानाच तपःक्षय । अमृतस्येय काङ्केत अवभlनस्य सर्वतः ? इत्यादि । प्रत्युत हंसे निवर्तकत्वं जानत: तोष एव युक्त इति चेत्-सत्यम्-अथाप्येतावन्तं कालमीदृशीं विद्यां नाध्यगमम् । अत एव पितृस्थानीयेन हंसेन निन्दितोऽस्मीति शोको भवत्येव । अतस्तेनाद्रवणमप्युपपद्यत एव । इतरथा पित्रादिकृतनिन्दायाः शोकहेतुत्वे तविन्दाया अकार्यकरत्वं स्यादित्यपि द्रष्टव्यम् ।