पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५० श्रीरङ्गरामानुजमुनेिविरचिता वैशद्यार्थमुपन्यस्यतीति। एवं िह श्रुति , “जानश्रुतिर्ह पौत्रायणः श्रद्धादेथे बहुदायी बहुपाक्य आस। स ह सर्वत आवसथान् मापथाञ्चक्रे, सर्वत एव मेऽन्नमत्स्य न्तीति। अथ ह हंसा निशायामतिपेतुः। तद्वैवं हंसो हंसमभ्युवाद-भोभो अथि भलाक्ष! भलाक्ष! जानुश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततम्। तन्मा प्रसाङ्की:। तत् वा मा प्रधाक्षीदिति । तमु ह परः प्रत्युवाच, कम्वर एनमेतत् सन्तं सयुवानमिब रैक्वमात्थेति यो नु कथं सयुवा रैव इति । यथा कृतायविजितायाधरेऽयः संयन्;ि एवभेनं सर्वे तदभिसमेतेि, थकिश्च मजः साधु कुर्वन्ति । । यस्तद्वेद यत्सवेद स मयैतदुक्त इति । तदु ह जनश्रुतिः पौवायण उपशुश्राव । स ह सञ्जिहान एव क्षत्तारमुवाच- अङ्गारे सयुग्वानमेिव रकमत्येति । यो नु कथं संयुग्वा रैक इति स हृ क्षत्तान्विष्य नाविदमिति . प्रत्येयाय । तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमृच्छे(मच्छँ)ति । सोधस्तात् शकटस्य पामानं कग्रमाणमुपोपविवेश | तं हाभ्युवाद-त्वं नु भगव:सयुवा रैक इति । अहं खरा इतेि ह प्रतिजज्ञे । स ह क्षत्ता अवेिदमिति प्रत्येयाय । तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कामश्वतरीरथं तदादाय प्रतिचक्रमे । तं हाभ्युवाद – रैके! इमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथः । अनु म एतां भगो देवतां शषि यां देवता मुपास्स इति । तमु ह परः प्रत्युवाच अह हारेवा शूद्र! तवैव सह गोभिरस्त्विति। तदु ह पुनरेव जानश्रुतिः पौलायणः सह गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे । तं हाभ्युवाद –केदं सह गवामयं निष्कोऽयमश्वतरीरथः, इयं जाया, अयं ग्रामः, यस्मिन्नासे । अन्त्रे मा भगवः श:धीति । तस्याह मुखमुपोद्गृह्यन्नु वाच आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति । ते ते रैकपर्णा नाम महावृषेषु, यलामा उबास । तस्मै होवाच –'; जनश्रुतस्यापत्यं जानश्रुतिः । पुत्रस्य पुत्रः पैौत्र । तस्यापत्ये . पौवायणः। श्रद्धादेयःश्रद्धापुरस्सरं देयमस्य श्रद्धादेयः । बह्वस्य. गेहेऽत्रं पक्तव्यमस्तीति बहुपाक्यः । सर्धः = सर्वासु दिक्षु, . अन्नपानादिपूर्णानेि. अतिथ्यभ्यागतानां वासस्थानानि निर्मितवान्, सर्वत एत्यातिथयः मेऽत्रं भोक्ष्यन्त इत्यभिप्रायेणेत्यर्थः । भलाक्ष ' भलाक्षेत्यनेन विपरीतलक्षणया मन्दलेोचनेति संभ्रमेण द्विवारं संबोधनम् ।