पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) ५५१ यथा कृतायविजितायेति । कृतनामधेोऽयः यूतशास्त्र(समय)प्रसिद्धः चतुरङ्कः । तत्र विजिताय जितवते अधरे अया: त्रिद्वयकाङ्काः, त्रेत-द्वापर-कलेिनामानः यथा; संयन्ति अन्तर्भवन्ति - चतुरङ्गे कृतनामके अये निधेकाङ्कानां तत्र सत्वेनान्तर्भावादित्यर्थः- यस्तद्वेद स वेदेति । सः रैकः यद्वेद्य वेद, तदन्योऽपि यो वेद, तमप्यभिसमेतीत्यनुषङ्गेण योजनां । स ह सञ्जिह्वान एव = तल्यं त्यजन्नेवेत्यर्थः । यत्रारे ब्राह्मणस्यान्वेषणेति । अरे ! ब्राह्मणस्थ = ब्रह्मविदः यत्रारण्ये नदीलिनादौ विविक्त अन्वेषणा = मार्गणं भवति । तत्रैनं रैकमृच्छ= मृगय स्वेत्यर्थः । पामानं कषमाणमिति । पामने कण्डूयमानमेित्यर्थः । नेिप् = हारम् । अश्वतरीरथम् = अश्वतरीभ्यां युक्तं रथम् । तदा = तस्मिन् काले गृहीत्वा रैकसमीपं गतवानित्यर्थः । अह हारेत्वा शूद्रेति । अद्देति निपातः, हारसहित इत्वा रथः हरेवा ! गोभिः सह तवैवास्तु, किमनेन मम सन्तोषः ? कलत्रहीनस्य मम एतद्धनरक्षणे वा का शक्तिः ? किं तव वाऽल्पधनदानेन विद्या प्रतिष्ठिता भवेदिति भावः । तस्या ह मुखमुपोद्गृहान् उवाचेति । तस्यः जायार्थमानीतायाः राज्ञो दुहितुः मुखं द्वारतां विद्याया दाने तीर्थ जानन्नुक्तवानित्यर्थ । * ब्रह्मचारी धनदार्थी मेधावी श्रोत्रियः प्रियः । विद्यायै वाऽपि विद्यां यः प्राह तीर्थानि षण्मम ” इति विद्यायां वचनात् । आजहारेमाश्शूदानेनैवमुखेनालापियष्यथा । इति । इमः दक्षिणाः आजहर्थ । अनेनैव मुखेन वेिद्याग्रहणोपायेन वाचयिष्यसीत्यर्थः । ते हैते रकपर्णा नाम महावृषेक्षेषु यलासा उवासेति। ते हैते प्रांमः रैकमर्णनामवेिस्याताः महावृक्षेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैकः, तान् मान् तस्मै रैकाय ददौ । तदनन्तरं तस्मै विद्यामुपदिदेशेत्यर्थः । क्षत्रियत्वातेश्च १-३३४. ननु महाभारते सूतात्मजमात्मानं मन्यमानस्य कर्णस्य दानपतित्वराज्याधिपति त्वादीनां श्रवणात्, अमेष्ठिनये वार्तिके, * संज्यमविशेषेण चत्वारो वर्णाः कुर्वाणां दृश्यन्त ? इत्युक्तः दनपतित्वं शूद्रस्यपि संभवति । न च , “शतेनापि च शूद्रेण नं कार्यो धनसञ्चयः । शंद्रो हिंधनर्मासाद्य ब्राह्मणानेव बाधते” इति निर्धनत्वश्रवणात् कथमंस्य दानपतित्वमिति वाच्यम्-व्यासस्मृतौ शूद्रप्रकरणे, 'राज्ञा वा समनुज्ञातः