पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५२ श्रीरङ्गरमानुजमुििवेर चितः कामं कुर्वीत धार्मिक । पापीयान् हि धनं लब्ध्वा वशे कुर्यात् गरीयस । इति धार्मिकशूद्रस्य धर्मार्थं धनार्जनस्य अनुज्ञातत्वादिति चेन्न, बहुदायि . स्वादीनां कदाचित् शूद्रे संभवेऽपि क्षत्तप्रेषणस्य, रैवाध्युषितग्रामाणां तस्मै दानस्य च क्षत्रियधर्मराज्याधिपत्यसाध्यस्य तन्नासंभवात् । राज्यपालनं हि क्षत्रियस्य वृत्ति आपद्वृत्तित्वेनापि ब्राह्मणस्यैव संभवात् । 'अजीवंस्तु यथोक्तन ब्राक्षणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तर । यो मोहादधभो भूत्वा जीवेदुत्कृष्टकर्मणा । तं राजा निर्धनं कृत्वा -क्षिप्रमेव प्रवासयेत् ? इत्यादिस्मरणात् राज्याधिपत्यस्याशास्त्रीयत्वात् । इतिहासपुराणादिषु दर्शितस्याक्षत्रियाणामपि राज्य परिपालनस्यशास्त्रीथतयाप्युपपत्तेः ग्रकृते शास्रानिषिद्ध राज्याधिपत्यग्रहणसंभवे निषिद्ध ग्रहणस्यान्याध्यत्वात् । जानश्रुत्यधिष्ठिताज्ये रैकस्य वासप्रतिपादनाञ्च तस्यक्षत्रिय त्वमभ्युपगन्तव्यम् । “ न शूद्रराज्ये निवसेत् न पाषण्डजनैते' इति शूद्रराज्यस्य निषिद्धत्वादित्यपि द्रष्टव्यम् । उत्तरत्र चैत्ररथेन लिङ्गात् १ -३.३५. त्रैवर्णिकत्वलिङ्गमित्यर्थसिद्धमिति । * सार्ववर्णिकमैक्षचरणमभिशस्त पतिवर्जम् ? इति गौतमस्मरणस्य त्रैवर्णिकालाभविषयतया व्याख्यातत्वात् नानुपपति रिति द्रष्टव्यम् । जातिद्वयसंबन्धितयावगतायामिति । विद्यायामिति शेष कापेयसहपाठादित्यर्थ इति । सहपाठवतपरस्परसाहचर्यादित्यर्थः । तत्पुरोहित कस्य चैत्ररथत्वं सिद्धमिति । ननु, “एतेन वै चित्ररथं कापेथ। अयाजथन तमेकांकिंनमन्नाद्यस्यांध्यक्षमंकुवन् । तस्मात् चैत्ररथिर्नामैकः क्षन्नपतिजायत ” इति द्विरात्रप्रकरणगतार्थवादे कापेययाज्यस्य किन्नरथत्वावगमात् अभिप्रतारिणोऽििचत्ररथ त्वमेव स्यात्, न चैत्ररथत्वमिति चेन्न-अभिप्रप्तरिलक्षणसंज्ञान्तरावरुद्धस्य चित्र ३थलक्षणसंज्ञान्तरावरोधासंभवात् समानान्वयानां समानान्वयज्यत्वस्योचिततया कापेयाऽयस्य चित्ररथवंश्यत्वे नानुपपत्ति । नन्वभिंप्रतारिणः कापेयाज्यत्वे सिद्धे तस्य चित्ररथवंश्यत्वसिद्धि ; चित्ररथवंश्यत्वे च क्षत्रियत्वनिर्धारणाम्, क्षत्रियत्वे च निर्धारिते साहचर्यात् जान्श्रुतेरपि क्षत्रियत्वानेश्चय इति प्रणाडी न संभवति, अभिग्रतारिणः. कापेथसाहचर्यमाणः :काषेम्याज्यत्वस्यैवासिद्धेः । न हि