पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशेिकः ( अपशूद्राधिकरणम् १-३-९) ५५३ कापेयाभिप्रतारिणोंरेक्षत्र भोजनं याज्ययाजकभावाधीनम्; नानादेशागतानां परस्पर संबन्धशून्यानामेकन्न भोजनदर्शनात् । । यौनौखसंबन्धान्तरसद्भावाच । अस्तु वा अभिप्रारिणः कापेथयाज्यत्वम् । नैतावता तस्य चैस्ररथत्वसिद्धिः, कापेयानां चैत्ररथ याञ्जकत्ववत् पुरुषान्तरयाजकत्वस्यापि संभवात् । अस्तु वाऽभिप्रतारिणः क्षत्रियत्वम्; तथापि तत्समभिव्याहारमात्रेण शत्रेत्यामध्यमाणस्य जनश्रुते क्षत्रियत्वे प्रमाणा भावादिति चेत् - अविदितपूर्वस्थ हस्तिनो निकटे पुरुषे दृश्यमाने, तस्मिंश्च राज्ञो हस्तिपकोयमितेि प्रत्यभिज्ञायमाने सति अयमस्य हस्तिपकस्य शिक्षणीयो हस्ती, राजकीयश्चेति बुद्धिरौत्सर्गिकी जायते । एवमिहापि अभिप्रतारिसन्निधौ कापेये श्रूयमाणे, तमिश्च श्रुत्यन्तरबलात् चित्ररथयाजकत्वेन प्रत्यभिज्ञायमाने, कापेथ याभ्योऽयमभितारी चिन्नरथवंश्यश्चेतेि बुद्धिजयमाना न निवारयितुं शक्यते । सा च बाधकाभावात् प्रमाणमवतिष्ठते इत्यौत्सर्गिकन्यायमवलम्व्योच्यते । एवं च ब्राह्मण द्वितीयस्याभिप्रतारिणः चैत्ररथत्वेन क्षत्रियत्वनिश्चये तत्समभिव्याहारात् ब्राह्मणस्य रैवस्थ द्वितीयो जानश्रतेिरपि क्षत्रिय इति निर्धारणं युक्तमेव ; अनन्यथासिद्धक्षतृ प्रेरणादिलिङ्गसाहचर्यादितिं द्रष्टव्यम् । संस्कारपरामर्शत्तदभावाभिलपाच १-३-३६ भाष्ये न च संस्कारमर्हतीतेि । ननु तत्रैव भानवे धर्मशास्त्रे

  • धर्मेप्सवस्तु धर्मज्ञाः सतां धृत्तिमनुव्रताः ।

मन्त्रव न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ' । इति तदनन्त्रलोके धार्मिकशूद्राणां मन्त्रवर्जसंस्काराणामभ्यनुज्ञानं कृतम् । न चाभन्त्रक संस्कारो न विद्योपयोगीति वाच्यम्-स्त्रीणामपि मैतेयीप्रभृतीनां तदभावप्रसङ्गादिति चेन्न – संस्कारान्तरसत्त्वेऽपि, * शूद्रश्चतुर्थो वर्ण एकजातेिः ? इत्युपनयनसंस्कारस्य निषेधात् उपनयनसत्वे जन्मद्वयप्रसङ्गे द्विजत्वप्रसङ्गात् । नन्वध्यनाङ्गमुपनयनं प्रस्तुत्यैव, 'तद्वितीयं जन्मे 'त्युच्यते ; न तु ब्रह्मविद्याङ्गं प्रस्तुत्येतेि चेन्न - 'त्यं हि नः पिता । येोऽस्माकमविद्यायाः परं पारं तारयसी ? ति वैदिकलिङ्गेन ब्रह्म विद्याङ्गोपनयनस्यापि जन्मान्तरत्वात् । नन्वेवं द्विजातीनां ब्रह्मविद्याङ्गोपनयनेन जन्मान्तरेपश्तै त्रिजन्मत्वप्रसङ्ग इति बेन्न-इष्टापतेः। 0