पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अपशूद्राधिकरणम् १-३-९) ५५५ नैतदब्राझणो विवक्तमर्हति समिधं सोम्याहर। उप वा नेष्ये । न सत्यादगाः इति । तमुपनीये। त्यादि । ततश्चास्यामारव्यायिकायमुक्तं गोत्रापरिज्ञानम्कृताध्ययनाङ्गोपनयनस्य बालस्य संभवति; न तु उपनीतस्याधीतसाङ्गस्वाध्यायस्य ब्रह्मविद्याधिजिगिमिषया गुरुमुपसीदतः । ततश्च कथमेतदुच्यत इति चेत् - उच्यते । नैतदब्राह्मणेो वितुमर्हतीत्यत्राब्राह्मणपदस्य शूद्रपरत्वमेव वक्तव्यम् । सत्यवचनं हि शूद्रे असंभावितम् । 'अनृतश्चातिवादश्च पैशुन्यमतिलोमता । विकृतिश्चाभिमानश्च जन्मतः शूद्रभाविशत्' इति स्मृतिवशात् शत्रे ईदृशसत्यक्चमसंभवितमिति हि गौतमस्याभिसन्धिर्युज्यते । नान्यथा | किञ्च त्रैवर्णिकानामुपनयनस्य श्रुतिसिद्धतया क्षत्रियत्वाद्यभावनिर्धारणस्योपनयनाप्रयोजकत्वात् साधारणोप्यब्राङ्गणशव्दः शद्रमात्रपर एव प्रकृते उचितः । यचोक्तमध्ययनङ्गमेवेदमुपनयनमिति – तन्न । उत्तरत्र घोड शकलब्रह्मविद्योपदेशस्यापि दर्शनादुभयार्थमेवेदमुपनयनम् । तादृशे चोपनयने प्रवर्तत्रानो गौतमः शूद्रत्वाभावे निश्चित्यैव प्रब्रवृत इतेि दर्शनात् उभयविधेप्युपनयने शूद्रत्वाभावोपेक्षित इत्येवावसीयते । यदि ब्रह्मविद्याङ्गोपनयने शूदत्वाभावो नापेक्षितः अपित्वध्ययनाङ्गोपनयन एवेत्युच्येत-तर्हि ब्रह्मविद्याङ्गमुपनयनं सत्यकामस्य जतिमपरी क्ष्यैव कुर्यात्, अतोऽवसीयते, द्विविधेयुपनयने शूद्रत्वाभावोऽपेक्षित इति । स्मृतेश्च १-३-३९ स्मृतिशब्दविवक्षितमितेि । श्रवणाध्ययनार्थप्रतिषेधस्मृतित्वेन विवक्षित मित्यर्थः । ततश्च श्रवणाध्ययनप्रायश्चित्तस्मृतिवचनस्य कथं निषेधस्मृतिवचनत्वमिति न शङ्कनीयमिति भावः । भाष्ये विपरीतवासनायां निवृत्तायां ज्ञानमुत्पत्स्यत इति । ननु मनुष्याणां बहूनि ब्रह्मविद्योत्पतिप्रतिबन्धकानि दुरितानि । तत्र यानि विविदिषोत्पत्तिप्रतिबन्धकानि, तानि च वेदानुक्चनयज्ञदानाद्यपूर्वनिवर्तनीयानि ; यानि चोत्पन्नविवेिदिषस्यापि श्रवणादिसाधनसंपत्तिविघटकानि, तानि च संन्यासा पूर्वनिवर्तनीयानि ; थानि च संपन्नश्रवणस्यापि असंभावनाविपरीतभावनाबाहुल्या पादनमुखेन अवेिद्यानिवर्तकब्रह्मसाक्षात्कारोत्पत्तिप्रतिबन्धकानि, तानि च वेदान्त श्रवणादिनिरुमसंपाद्यादृष्टनिवत्र्यानि । ततश्च कथं शूद्रादीनां श्रवणनियमसंपाद्या दृष्टविधुराणामधिकार इतेि चेन्न-नियमादृष्टवैगुण्यमात्रेण दृष्टफलनिष्पतेः काप्य