पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ श्रीरङ्गरामानुजमुनिविरचेिता दर्शनात्। उपनयनाङ्गकाध्ययननियमावृष्टवैगुण्येऽपि दृष्टफलस्याक्षरराशिग्रहणस्य अर्थ ज्ञानस्य वा अनुत्तेरदर्शनात् । इयांस्तु विशेषः-नियमस्य क्रवर्थत्वे नियमादृष्टवैगुण्ये क्रतोगुण्यं भवति । यथा अवघातनियादृष्टवैगुण्ये क्रतोर्गुण्यम् । पुरुषार्थत्वे तु नियमोलइने पुरुः प्रत्यवैति । यथा द्रयार्जनोपायनियमवैगुण्ये । ततश्च श्रवण नियमस्य च क्रत्वर्थत्वप्रसक्तः तद्वैगुण्ये पुरुषः ग्र यचैतीत्येतावद्वक्तव्यम् । ततश्च यस्तूपन्नब्रह्मविविद्विषः शूद्रो वाऽन्यो वा प्रत्यवायमप्युभ्युपेत्य उत्पन्नमपि यवायं ब्रह्मज्ञानेन निर्धक्ष्यामीति बुद्धया लौकिकभाषाबन्धादिषु प्रवृत्तः तस्य नियमादृष्ट भन्तरेणापि ज्ञानोत्थतेः दुर्निवारवात्, उत्पत्रे च ज्ञाने अविद्यान्वृितेः दुर्निवार त्वाञ्च परेषां मतमसमञ्जसमिति झ्याम । भाष्ये प्रत्यक्षानुमानवृतेति । वृत्तं बोधनमित्यर्थः । साङ्खवदैरण्यगर्मेति । साङ्खयादिभिनैसर्गिकव्यवहाविरुद्धकर्तृ त्वादिविरुद्धात्मस्वरूपप्रत्यायने सति साधकबाधकप्रमाणस्वरुपशोधनेच्छया प्रत्यक्षानुमानः प्रकारबुभुत्सा भवत्येवेति न प्रसञ्जनार्थं वेदान्तापेक्षेति भावः । परमकारणत्वो पयोगीति । “समानाभरूपत्वाचावृत्तावप्यविरोधः' इतिसूत्रे चतुर्मुखद्युत्पादकवेन परमात्मनः परमकारणत्वस्याऽऽविष्करणादिति भावः । मधुविद्यायासुक्तमिति । । अथ त ऊर्व उदेत्य, नैवोदेता नास्तमेते 'त्यादिभागस्य कारणावस्थजीवान्तर्यामि परत्वस्य तत्र प्रतिपादनदिति भावः । परमात्मविषयत्वं ज्ञापितमिति । यद्यपि 'वायुर्वाव संवर्ग: । यदा वा अग्रुिद्धायति वायुमेवप्येती' त्यादिना अन्याद्य प्याधारत्स्य परमात्मलिङ्गत्वात् संवर्गविद्यायाः परमात्मपरत्वं सिद्धवत्कृत्यैव पूर्वोत्तस् पक्षयोः प्रवृत्तिदृष्टl; न तु तदधिकरणे तद्विद्यायाः परमात्मपत्वसमर्थनं दृष्टम् तथाऽपि यथाकथंचित् तस्मिन्नप्यधिकरणे कारणत्वनुबन्धिविचाररूपत्वमस्तीति सङ्गथतिशयोऽस्तीति भावः । अत्रापीति ! समन्वयाध्यायेऽपीत्यर्थः । इति अपशूद्रधिकरणम् (९)