पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुज मुनेिविरचेितः द्रष्टव्यम् । लक्षणाप्रसङ्गादिति भाव इति । न च भेित्यस्मादितिव्युत्पतिसंभवात् लक्षणेति वाच्यम्-भयशब्देन भयहेतुप्रतीतेः असति बाधकेऽनुदयेन तत्प्रतीते लक्षणैकशरणत्वादिति भावः । अध्याहारादीति । इवशंब्दाध्याहारादपीत्यर्थः । अत एव पूर्वतन्त्रे प्रयुक्तिलक्षणे (४-२-२.) आर्चीमाहरतीत्यत्र प्राचीशब्दस्य दिग्वचनत्वे मुख्यत्वसत्वेऽपि आहर्तव्यत्वासंभवेन प्रतिशब्दाध्याहाबलात् प्राचशब्दः प्राग ग्रशाखालक्षक इलाश्रितमिति भावः । कथं हेतुत्वावगम् इति । भयमितिश्रयमाणे भयादित्यर्थः कथं लभ्यत इत्यर्थः । पूर्वमवतारितस्य भाष्यस्य भयादस्येत्यादिभाष्य यस्याभिप्रेतामाशङ्कान्तरनिवृतिमप्याह एवंतर्हति | अथवाऽन्न यद्वेयध्याहारः । प्रथमान्तपदसमानाधिकरण्यस्वारस्यभङ्गइति । प्रथमान्तपदत्वभङ्गः भयशब्दस्य वज्रपदसामानाधिकराथस्वारस्यभङ्गश्चेत्यर्थ । इवशब्दा ध्याहारश्च स्यादिति । लक्षणा च स्यादित्यर्थः । अध्याहारस्य पूर्वमेव निस्तत्वात् । यद्यपि वज्रशब्दस्य लक्षणा सर्वपक्षसाधारण, तथापि पूर्वदूषणे तात्पर्यम् । प्रथमाया विहेितत्वादिति । यद्यपि सुपांसुलगिति सूले स्वादेश एव विहितः, तथापि प्रमैकदेशवचनस्य प्रत्यभि ज्ञायमानतया तस्यैव विधानमभिप्रेत्य प्रथमाया विहितत्वोक्ति । यद्वा सुपां सुपो भबन्तीति . तत्सूत्रवार्तिकेन सर्वासामपि विभक्तीनां स्थाने सर्वासामपि विभक्तीनां विधानात् प्रथमाया अपि सर्वविभक्तिस्थाने विहितत्वमभिप्रेत्यैतदुक्तमिति द्रष्टव्यम् । युपां सुपो भवन्तीत्यादीनाम्, 'व्यत्ययो बहुल'मितेि सूत्रप्रपञ्चतथा तेनैव सूत्रेण तत्सिद्धिमभिप्रेत्याह वचनच्यत्ययो वेति । 'व्यत्यये बहुल 'मिति सूत्रविहित विभक्तिव्यत्ययो वेत्यर्थः । सतून् जुहोतीत्यादौ विभक्तिव्यत्ययदर्शनात् दर्शनं न दोष इति भावः । ज्योतिर्दर्शनात् १ - ३-४१ एतत्प्रकरणहेतुत्वमेवेति । अङ्गुष्ठप्रमितवाक्यद्वयमध्यगतस्यास्य मन्क्षस्य तत्प्रकरणभङ्गेन प्रकृततेजोधातुपरत्वशङ्का न युतेति दर्शयतीत्यर्थः । ज्योतिष्मद्राज मानं भहस्वदिति । न चालपि ज्योतिश्शब्दस्य तेजःपरत्वसम्भवात् दीप्तिपरवं [न?] संप्रतिपन्नमेिति वाच्यम् – महस्वदित्यनेन पुनरुक्तिप्रसङ्गादिति भावः । आप्यायनं च दृष्टमिति । अनुग्रहश्च दृष्ट इत्यर्थः । ननु प्राकृततेजसोऽनुभाइ