पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० श्रीरङ्गरामानुजमुनिविरचिता हेतुप्रयोगानन्तरमेवेति । 'उत्तराचेदाविर्भूतस्वरूपस्तु' इति सूत्रे आविर्भूत स्वरूप आत्मा प्रजापतिवाक्ये अपहतपाप्मवादिगुणकतया प्रतिपाद्यते; न तु कर्तृत्वाद्य नर्थाश्रयो जीव इत्युक्त – न प्रजापतिबाक्ये आविभूतस्वरूपस्य प्रतिपाद्यता; किन्तु परंज्योतिरुपसंपद्येत्यादित्यं प्राप्तस्य बद्धस्यैवेति हेत्वसिद्धौ शङ्कितायां तत्परिहारपरस्य ज्योतिर्दर्शनादिति सूत्रस्य तत्रैव निवेशो युक्त इत्यर्थः । अपरे त्वाहुरिति । तु शब्दोऽप्यर्थः । अपरेप्येवमेवाहुरित्यर्थ । ततश्च पूर्वोक्तपक्षादस्य पक्षस्य िकं वैषम्य मिति शङ्का निरस्त । इति प्रमिताधिकरणशेषः । अर्थान्तरत्वादिव्यपदेशाधिकरणम् (१०) आकाशेोऽर्थान्तरत्वादि व्यपदेशात् १-३-४२. . आकाशो हवै नामेत्यादीति । आकाशो हृचै नामरूपयोरित्यपि केचित् पठन्ति: आकाशो वै नामरुपयोरित्यपि पाठो दृश्यते । अत: पाठद्रयमपि प्रामाणिक मेवेति द्रष्टव्यम् । स्ववाक्ये परमात्मलिङ्गेति । ननु शाङ्करभाष्ये, द्रष्टत्वादेः ब्रह्मलिङ्गस्याश्रवणादित्येवोच्यते; न स्वाय इति, तलः कथमिदमुच्यते स्थचाक्य हृतीति चेन्न –“ते यदन्तरा तद्रह्म; तदमृतम्; स आत्मे' ति वाक्ये परमेव ब्रह्म प्रतिपाद्यते । आकाशो ह वै नामरूपयोर्विहितेत्यंशे तु आकाशशब्दप्रसिद्धया अवकाशद्वारेण नामरूपयोः निर्वोढा भूताकाशो ब्रह्मप्रतिपत्थुपायतया प्रतिपाद्यतं इति वाचस्पत्यभितपूर्वपक्ष हृदि निधाय, तत्र च, आकाशो वै नमस्पथोः निर्वातेि त्येतावदेव स्ववाक्यम्, 'तत्र च परमात्मलेिझं नास्तीति वक्तुं स्वबाक्य इत्युक्तमिति द्रष्टव्यम् । अन्योन्यनिर्वाह्यनामरूपस्येति । ननु मुक्तस्याप्यन्यनिर्वाह्मनामरूपत्वं समानम् । तदपि न साम्प्रतिकीमवस्थामादायोपपादयितुं शक्यते ; अपि तु भूत पूर्वगत्या । ब्रह्मात्मशब्दयोश्च न स्वारस्यम् । ततश्चाकाशश्रुतिमूलस्य पराभिमतपूर्वपक्षस्य नामरूपनिवेोट्टत्वरूपलिङ्गबलात् अनुत्थितौ कथं प्रकरणमालशरणस्य मुक्तपूर्वपूक्षस्यो