पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (आनुमानिकाधिकरणम १-४-१) ५६९ तदधीनत्वादर्थवत्, (१-४-३,) कालान्तरावच्छिन्नाकारविरह इति । कालान्तरध्यावृत्ताकारविरह कालान्तरल्यावृत्तिरिह इत्यर्थ । कालान्तरानुवृतिरिति यावत् । तदुपयुक्तार्थ तादधीन्यस्यापीति । नदध्यक्त उपयुक्त यस्येति तदुपयुक्तार्थः, तत्साध्यार्थो महदादिरुच्यते । यदर्थोपयुक्तस्वरूपपवृतथो यदधीनः, तत्साध्यार्थस्यापि तदधीनत्व दर्शनादिति भावः । ननु महिमवादेषु शरीरत्वप्रतिपादनेन तदात्मकत्वसिद्धावपि प्रळयवादषु क्रथे तसिदः ? पृथिव्यादीनाम्बादिषु लयमालप्रतिपादनादित्याशङ्कयाह -- प्रध्ये प्रत्वश्रुतेरपीति । भाष्ये – उत्पतिवाक्यानुप दाने हेतुमाह – अप्यय पूर्वकत्वादिनि । इतररिति । यादवादिभिरित्यर्थः । निरुह्यत इति पाठः, चहेर्यकिः संप्रसारणे अङ्गावयद्दलुत्तत्वाभावेन तस्य दीर्वाप्रसक्तः, * ऊ विनके इति धात्वश्रयणेऽपि, “उपसर्गात् हस्व ऊहते; " इति हृम्वविधानाच्चेति द्रष्ट म् । केन युक्तिबलेनेति । अव्यक्तपरत्वम्येति शेषः । शङ्कते--प्रकरण परिशेपाभ्यामिति । ‘रूप विन्यस्तगृहीते 'रित्याद्यसूत्रविवक्षि-ाभ्या[माभ्या?]मव्यक्त शब्दस्य शारीरविषयत्वनि.य न शरीरस्य चात्मापेक्षया मुख्यस्य परस्यासंभवेनास्मिन् प्रकरणे सर्वन्न परत्वस्य यथाकथञ्चिन्निर्वाह्यत्वं श्रुयनिप्रेतमवगम्यते । ततश्धार्था दीनामपि परत्वं कथञ्चिदुपपद्य इति सिद्धयतीति चेदित्यर्थः । तेनैवेति । युक्ति बलेने िशेष ।। लयाणमेव चैवमुपन्यास प्रश्श्च (१-४-४.) हेनुसमुच्चय इति | पृचैसूत्रोक्तहेतुना एतत्सूत्रोक्तहेतुं समुधिनेोतीत्यर्थः । लोकाद्भिरिं तमुवाच तसा इति उपक्रम्येतेि । अत्रापेक्षितः श्रुतिक्रम

  • अत्ता च /चग्रहणात् ' (१ - २ - ) इत्यत्र ििलखितः व्याख्यातश्ध, तत

एवावगन्तव्यः । जहा-त्युपदिदेशेतीति । पूर्वेणान्वय इति शेषः । पुनःपप्रच्छेति पाठ इति । पुनःपुनः पप्रच्छेति पाठस्तु न युक्त इति भावः । भाष्ये - “ मत्वा धीरो हर्षशोकौ जहाति ? इति निर्दिष्टस्य ब्रह्मोपामनस्य इतेि पाठ । * धीरो न शोचतीति ।) पाठो लेखकदंषात् । तस्याप्रकृत्वादिति द्रष्टव्यम् । ननु कृताकृताद् भूताद् भव्याचेति त्रितयस्यापि 72 १