पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( चमसाधिकरणम् १-४-२) न जायत इत्यजेतेि योगरूपमुख्यवृत्यैव लोहितशुझकृष्णाशब्दलक्षितेजोबन्न कारणस्याभिधानसंभवे छागत्वकल्पनेन गौणवृत्य तत्प्रतिपादनाभ्युपगमस्थायुक्तत्वादिति। तेजोवन्नानामबाचकस्येति टीकाया अप्ययमेवार्थः – तेजोबन्नकारण|वाचकस्या जाशब्दस्य गौणया वृत्य) तादृशकारणप्रतिपादकत्वं परिकल्प्य तथाऽभ्युपगमात् वरं योगवृत्या अजाशब्दस्य मूलकारण परत्वमिति । न त्वजशब्स्य तेजोबन्नलक्षण। द्रा त कारणलक्षकत्वमस्मिन् वाक्ये प्रतिक्षिप्यत इति मन्तव्यम् ; पैरैस्तथाऽनुतेः । लोहितादिशब्द लक्षणा, अजाशब्दे गौणीवृत्तिरित्येवोक्तमिति मन्तव्यम् । रूढितोऽव यवशक्तया वेति । नन्वेवम् , मैतु होतुश्चमसः प्रोद्वतृणाम्'इतिमन्त्रे उदातृपदरू व्यर्थबहुत्वानुपपौ सत्यामवयवार्थमादाय न ससुब्रह्मण्यानां चतुर्णा ग्रहणम्; अपि तु रूढिपूर्वक्लक्षणया अन्तरङ्गप्रत्यासत्या सद:प्रवेशवतामुद्रातृप्रस्तोतृप्रतिहर्तृणां त्रयाणा मेव ग्रहणमिति सिद्धान्त (३-५-७) कोपप्रसंग इति चेत्र – उद्भातृपदे यौगिकार्थ ग्रहणेऽपि, प्रैतु होतुश्धमस । इति यत्र सदसि भक्षयितारः स्थिताः तत्र चमसस्य नयनं भक्षार्थं प्रेष्यते । न च सुब्रह्मण्यस्तत्र स्थित । अतः त्रयाणामेव भक्षणं योगपक्षेऽपि सियतीति योगापलापेन रूढिपूर्वकलक्षणासमर्थने न प्रयोजनं श्यामः । रूढि पूर्वकलक्षणापक्षे अपकुब्रह्मण्यानां ग्रणम्, योगपक्षे चतुर्णामपीत्यस्यार्थम्थासंप्रतिपन्न त्वात् । तस्मात् तदधिकरणम्, रूढधर्थबहुत्वासंभवे यौगिकोऽर्थः स्वीकर्तव्य: ; न तु पाशबत् अन्यन्तागतिकत्वम् ; पाशपदे योगाश्रीप्रतीतेरित्येवम्परम् । ततश्च प्रकृते अजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेर्न रूढिपूर्वकलक्षणाप्रसंगेोऽवतरति । अत एव कुमुदं पङ्कजमित्युक्त पङ्कजनिकर्तृत्वार्थ एव प्रतीयते; न तु तत्सादृश्यमिति भावः । भाष्ये खखिन् अनादिकालसंबद्धानामिति स्वरूपापेक्षया नपुंसकलिङ्ग निर्देशः । ' दृढभक्तिः', 'शक्यञ्चानेन क्षुत् प्रतिहन्तुम्’, ‘द्विगुरेकवचनम्' इतिबत् स्त्रीलिङ्गाविवक्षया वा । एवमनेन वाऽन्येन वा संयोगयोग्येत्युत्तरभाष्येपि लिङ्गनिर्देशो द्रष्टव्यः । भाष्ये स्वपरित्यागाहेतुभूतेति, अपवर्गसाधनभूताया इत्यस्य प्रतिद्वद्धि । गौणधृत्यनङ्गीकारेऽपि न वैयथ्यमिति । नन्वजामन्त्रे स्वरसत एतावान् अर्थः प्रतीयते - काचित् छागीं त्रिवर्णा सरूपबहुबर्करामेकश्छागः प्रीयमाणोऽनुवर्तते, अन्यस्तामुपभुक्तां त्यजतीति । अत्र 73 ५७७