पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्र काशिका (संस्योपसंग्रहाधिकरणम् १-४-३. ) ५७९ पाठादिति वाच्यम् – चमसशब्दस्य पात्रविशेषादन्यत्र प्रयोगे ५माणाभावात् । यदि च रूढत्वम्, तदाऽपि पूर्वोक्तोषात् परोक्तयोजना न युक्तति तात्पर्यम् । इति चमधिकरणम् (२) संख्योपसंग्रहाधिकरणम् ( ३) न संख्योपसंग्रहादपि नानाभावातिरेकाञ्च १-४-११

  • तं देवा ज्योतिघां ज्योतिशयुपासतेऽमृतम् ”, “ यस्मिन् पञ्च पञ्चजन)

आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् । प्राणस्य प्राणमुत चक्षुपश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्न मनसो ये मनो विदुः । ते निचिक्युर्बह्मपुराणमग्राम् ? इति श्रुतेि । तान्यपि विपय इति । “स वा एष पुरुषः पञ्चधा पञ्चात्म' इत्यादिवाक्यमपि विषय इत्यर्थ । पञ्चस्खन्यतभत्वा भावेनेति । यद्यपि, * १थकारपञ्चमाश्चत्वारो वर्णाः पञ्चजनाः " इति कैथोत्तः मनुष्यनाः पञ्चजनशब्दस्यापि सप्ततुिल्ययोगक्षेमत्वमेवेति वतुं शक्यम्--तथापि भनुष्यादिनाङ्गः पञ्चजनशब्दस्य पञ्चभिभूतैर्जननमस्येति व्युत्पत्यभिधाये तथोक्तमिति द्रष्टव्यम् । न च तथाव्युत्पत्त्याश्रयणेऽपि संख्यापूर्वकत्वं सिद्धमिति कथं संख्यापूर्वक समासत्वाक्षेप इति वाच्यम् – समानाधिकरण संख्यापूर्वकसमासासंभवादिति भाव । संख्यापूर्वकसमासत्वं युक्तमित्यभिप्रेत्येति । “तद्धितार्थोत्तरपदसमाहारे च इति सूत्रविहितसंख्यापूर्वकसमापत्वं युक्तमित्यभिप्रेत्येत्यर्थ । न तु, “दिवसंख्ये संज्ञायाम्' इति विहितसंस्थापूर्वकसमासत्वांमेति मन्तव्यम् । तथा सति, सप्त सप्तर्षय इत्यत्र एकोनपञ्चाशत्वसंख्याप्रतीत्यभाववत् पञ्चपञ्चजना इत्युक्त पञ्चविंशतितत्त्व प्रतीत्यभावपसंगादिति द्रष्टव्यम् । तदा हीति । पञ्चशब्दस्यासमस्तत्वे इत्यर्थः । दशत्वमापद्येतेति । “पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुः ? इत्यादौ द्वादशवर्ष वृष्टयभावप्रतीतिवदिति भावः । विशेष्यपर्यन्तशब्दोपस्थापितस्येति । ततश्च स्वतन्त्रोपस्थित्यभावेन नैराकाद्भवादिति भावः । न च द्वे शते इति ।ः द्वे शते ब्राह्मणाः, त्रीणि शतानि ब्राह्मणः इत्यत्र ब्राह्मणपदसामानाधिकरणप्रसिद्धार्थ