पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( संख्योपस्संग्रहाधिकरणम् १-४-३.) ५८१ श्वशब्दस्येति । पञ्चजनशब्दान्नर्ग:पञ्चशब्दस्येत्यर्थः । स्त्रीलिङ्गस्मृतेरिति ।

  • आकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते ? इति स्त्रीत्वस्य , “ पात्रादिषु प्रतिषेधे)

वक्तव्यः ? इति त्रिभुवनादिष्वपचादवत् इह तदभावान् छान्दत्वमेिति भावः । एतचोपलक्षणम्-“ऊकालोज्झस्त्रदीर्घप्लुनः” इत्यत्र छान्दसत्वेन, “स नपुंसकम् । इति नपुंसकलिङ्गाभवत् इहापि छान्दसत्वेन , 'स नपुंसकम्' इति नपुंसकलिङ्गा भावोऽपि द्रष्टव्यः । ननु, ' यस्मिन् पञ्च पञ्चजनाः' इति मन्त्रे आत्माकाशव्यतिरेके णापि पञ्चविंशतिपदार्थप्रतीतेः ताभ्याञ्च सह सप्तविशतिसंख्यासंपतेः नैतत् सांख्य दर्शनानुगुणमित्याशङ्कय कृतिद्रव्यस्य द्रव्यत्रयात्मकत्वेन सप्तविंशतिसंख्यया अपि न तन्मते विरोध इति परिहरति यस्मिन्निति निर्दिष्टनात्मना चेत्यादिना । आत्मनः स्वस्सिन् अवस्थितत्वादिति । ' स्वे महिन्नि प्रति ष्ठतः ' इतिवदिति भावः । भाष्ये मूलप्रकृतिरविकृतिरिति । मूलपकृति कस्यापि विकृतिः । महदहङ्कारतन्मात्राणि सप्तापि किञ्चिदपेक्षया विकृतयः, किञ्चदपेक्षया प्रकृतयश्च । पञ्च भूतानि पञ्च ज्ञने न्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चति षोडशापि तवानि विकृतेिभूतान्येव ; न प्रकृतेि भूतानि । पुरुषस्तु न प्रकृतिः, नापि वेिकृतिश्रेति श्लोकार्थः । भाष्ये तमिति परामशेनेति । तमात्मानं ब्रह्मामृतं एवमन्यो वेिद्रान् अमृतो भवतीति तच्छब्दनिर्दिष्टस्य मन्त्रवणे ब्रह्मवाविष्करणादिति भावः । ननु विश्वज्ञामयने, 'पञ्च पञ्चाशत: त्रिवृतः संवत्सरः पञ्चपञ्चाशतः पञ्चदश: इत्यादौ पञ्चाशति पञ्चाशति अहस्सु अनुगतोपाध्यभावेपि तथातथा निर्देशवत् इहापि पञ्चसु पञ्चसु अनुगतोपाध्यभावेऽपि लक्षणया पञ्चविंशतिसंख्याप्रतीतिः संभवतीत्यस्वारस्यं हृदि निधायाह – भृतसमूहासिद्धेरित्युपलक्षणमित्यादिना । तेष्वर्थवत्त्वमाहेति । समस्तपञ्जनशब्देनैव पञ्चत्वसंख्यायाः प्रतीतत्वात् पुनः पञ्चशब्देन विशेषणं व्यर्थमिति शङ्कां युदसितुमर्थवत्वमाहेत्यर्थः । समाप्त सामथ्र्याभावादिति । ' समासस्य सामथ्र्य नाम समर्थपदाश्रितत्वम् । पदानां सामथ्यै नाम परस्परसंसृष्टार्थत्वम् । ततश्च पञ्चशब्दस्य निरर्थकत्वे धरस्परसंमृष्टार्थ पदाश्रितत्वलक्षणसामथ्र्ये न स्यादिति भावः । अत्रायमभिसंधिरित्यादेरयमर्थ साधुत्वान्वास्यानप्रवृत्ताः वैयाकरणाः सन्तमसन्तं वा कश्चिदर्थ परिकल्प्य व्युत्पादयन्ति। न च ताबता तत्पदात् तदर्थप्रतीतिरिस्त । न हि गौरित्युक्त गच्छतीति प्रतीतिरतिः