पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (कारणत्वाधिकरणम् १-४-४) ५८५ पत्तिरित्ययुक्तम्; अव्याकृतत्वस्याचेतनैकान्तत्वाभावात्। अत एव तदुपजीवी तदुतर सन्दर्भः सर्वोऽपि न युक्त इत्यस्वरसादाह-यद्वा कारणग्गता इतीति । नन्वीक्षणस्य सर्वश्र) मुग्यत्वभङ्गापेक्षया अंशे मुख्यत्वभङ्ग एव स्वीकार्य इति वैपरीत्यमेकं युक्तमित्याशंक्य चिदंशकारणत्वस्य अनन्यथासिद्धप्रमणप्रतिपन्नतया सर्वत्र ईक्षणादि गौणत्वमेव युक्तमित्याह - तदतिरिक्त (ततश्चाचिदतिरिक्त?) वस्तुनीति । नेतिपदानुषङ्गफलित इति । 'न संख्योपसंग्रहादपीति सूत्रस्थनअनुषङ्ग फलित इत्यर्थः । ननु कारणत्वेनेत्यादेसूत्रे यथाव्यपदिष्टस्य सर्वज्ञत्वादिगुणकस्य, असद्ध। इदमग्र आसीदित्यत्रापि जगत्कारणत्वेन उक्तरिति हि वक्तव्यम् । तस्यैव पूर्वपक्ष प्रत्यनीकत्वात् । न तु आमन आकाशः सम्भून इत्यादिवाक्ये सबैज्ञस्यैवाकाशादिकारण त्वेनोक्तेरिति प्रतिपादनं युक्तम् । केिञ्च ततेजोऽस्जतेति सद्विद्यावाक्योपादान:प्य युक्तम्; तत्रांकाशादिकारणत्वाश्रवणादित्याशैक्याह - स्वतश्चेतनैकान्तेति । भूयसां बलीयस्त्वमेवेति । आकाशादिपदविहितत्रह्मकारणत्वपतिपादकबहुवाक्यानुसारेण ब्रह्मकारणवादविरोधी काचित्कोऽसदव्याकृतादिशब्दो यथाकथञ्चिन्नेतव्य इति अस्य सूत्रस्थार्थः । पूर्वापरवाक्यपर्यालोचनयाऽपि असदादिशब्दम्य तथैव निर्वाह इत्युतरसूत्रार्थ इति भावः । विपश्चिन्वप्रतिपादनादिति । इदमुपलक्षणम् । सत्यं ज्ञानमिति ज्ञानत्वप्रतिपादनादित्यपि द्रष्टव्यम् । ननु सच्छब्दस्य चेतनपरत्वे जडयाचीदशब्दसामानाधिकरण्यं कथमित्यत्राह- सच्छब्दस्येति । समर्थित इत्यभिप्राय इति । तात्पर्यत इतीति शेषः । एको हवै नारायण असीदित्या रभ्येति । अत्रारम्भसमानकर्तृकक्रियावाच्युचितपदाध्याहारेणान्वयो द्रष्टव्यः । उपक्रमस्यहुश्रुतिविरोधादिति । यद्यप्यव्याकृतब्राह्मणोपक्रमवाक्यमिदमेव-तथापि पूर्वब्राह्मणेषु, आत्मैवेदभय आसीदित्यादिश्रबमादेवमुक्तमिति द्रष्टव्यम् । समाकषोन् १-४-१५ स इंनेि () पुलिङ्गशब्देनेति । उत्तरोत्तरवाक्यगतस्य तच्छब्दस्य स्यस्व पूर्ववाक्यप्रतिपन्नगुणविशिष्टसमाकर्षकत्वान, सोऽकामयतेति चाक्यप्रतिपन्नगुणविशिष्ट समांकर्ष इति भावः । ज्ञानविपश्चिदादिबहुश्रुतिप्राबल्यसिद्धरिति । ननु ज्ञान विपश्चिदादिशब्दैर्बह्मण: कृतत्वेऽपि, असद्वा इदमग्र आसीदित्यत्र असच्छब्दश्रुति