पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जगद्वाचित्वाधिकरणम् १०४-५) ५८५ सं यदा प्रतिबुध्यत इत्यारभ्य.तृतीयप्रश्स्य प्रतिबचनमित्यभिप्रायः । तदानीं तदाशब्द इति । नाडीनां सुषुप्तिस्थानत्वाभ्युपगमक्ष इत्यर्थः । उक्तवानित्यन्वय इति । करणग्रामैकधाभावस्यैव सुषुप्तिरूपतया, प्राण एवैकधा भवतीत्यनेन सुपुत्याधारतया उक्तवानित्यन्त्रय इत्यर्थः । भाप्ये खप्रसुषुप्तिजागरितावस्थाखिति । यद्यपि पूर्वपक्षे प्रक्षपतिवचनयोः स्वसम्वन्धाभावात् स्वावस्थायामनुवर्तमानत्वं न प्रतीयते-- तथापि स्वमजागरणसुषुप्तीनां सामानाधिकरण्यमर्थसिद्धमेिति भावः । यद्वा, यदा सुप्तः स्म न कथञ्चन पश्यतीति वाक्यादिति द्रष्टव्यम् । प्राधान्यं विवक्षितमिति चेदिति । यद्यपि, * संत्याया विधार्थे धा?' इति संख्यायां विधीयमानो धाप्रत्ययः प्रधन्यवाचिन एकशब्दान्न संभवति--तथापि छान्दयत्व.तू तथा शङ्कितमिति द्रष्टव्यम् । भाष्ये असिन्नात्मनि वर्तमाने प्राधो एकधा भवति वागादिकरण ग्राम इतीति । ननु मुल्यप्राणस्यैकीभूकरणग्रमाश्रयत्वे सुषुप्त्याश्रयत्वप्रसङ्गेन , मुख्यप्रणस्येश्वरस्य च सुबुप्तिमवोधयोरसंभव)दिति पूर्वभाष्यविरोध इति चेन्न एकीभूनकरणग्रामाश्रयप्राणाश्रयत्वस्यैव सुषुप्तित्वविवक्षया “एतत्वक्षेोस्थितिसंभवादिति द्रष्टव्यम् । प्राणनामभिरामन्त्रणाश्रवणादिनेति । इदमुत्तरल स्पष्टम् । पूर्वपक्षे कलादिशब्दानामिति । पूर्वपक्षिणः सांख्यस्य मते कर्तृत्देश्धस्तत्वेनास्वारस्या बश्यम्भावादिति भावः । स्वाक्यस्थपदान्तरान्वययोग्यत्वं विवक्षितमिति । यद्यपि, 'चमसक्दविशेष ? दिति सूत्रे, ' अर्थप्रकरणादिभिर्विने "' ति भाष्यव्या ख्यानावसरे, 'अर्थो वस्तुसामथ्यैम्इत्युक्तम् । आलङ्कारिकैश्च , *अर्थः प्रयोजनम् यथा, ‘स्थाणु भज भवभञ्जनायेति भवभञ्जनरूपप्रयोजनवशात् हरदारुसाधारणस्थाणु शब्दस्य हरे पर्यवसानम्। प्रकरणं प्रस्तावः--यथा चक्रवर्तिसन्निधौ, 'सर्वे जानाति देव इनि प्रयुक्तस्य देव इति पदस्य'इन्द्राद्यनेकार्थसाधारणस्य युष्मदर्थे पथैवसानं प्रकरणात्। लिङ्ग वस्तुसामथ्र्यम् .. यथा, *कुपितो मकरध्वज ! इत्यत्र समुद्रमन्मथसाधारणस्य मकरध्वजशब्दस्य कोपरूपलिङ्गबशात् मन्मथे पर्यवसानम् " इत्यादि उक्तम् तथाप्यनतिविरोधादेवमुक्तमिति द्रष्टव्यम् । नन्वेतच्छब्देन कर्मशब्दसमभिव्याहृतेन एतेषां पुरुषाणां कर्तेति पूर्वनिर्दिष्टपुरुषपरामर्शित्वं किं न स्यादित्यत आह - लिङ्गवचनविरोधादिति । ननु “एतेषां पुरुषाणां कर्ते 'त्यनेनोपस्थापितस्य पुरुषकर्म