पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता ध्मायमानस्थ न ग्रहणाय; शङ्कस्य तु श्रहणेन शङ्कमानस्य वा शब्दो गृहीतः – स यथा वीणायै बाद्यमानायै न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय ; वीणायास्तु अहणेन वीणावादस्य वा शब्दो गृहीत स यथाऽऽर्दैधाझेभ्यहेितस्य पृथक् धूमा विनिश्चरन्ति, एवं वा अरे अस्य महतो भूनस्य नि.श्वसितमेतत् यदृचेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्यां उनिषदः श्रोकाः सूत्राणि– भूतानि । अस्यैव एतानि सर्वाणि निःश्रसेिनानि । स यथा सर्वासा (पां समु कायनमेवं सर्वेषां स्पर्शनां जिंकायनम् । एवं सर्वेषां गन्धानां घ्राणमेकायनम् । एवं सर्वेषां कर्मणां हस्तावेकायनम् । एवं सर्वेषमान्दानामुपस्थ एकायनम् । एवं सर्वेषामध्वनां पादावेकायनम् । एवं सवेषां वेदानां वागेकायतनम्। स यथा सैन्धवधनोऽनन्तरोऽवाह्यः कृत्स्रो रसघन एव, एवं वा अरे ऽयमात्माऽनन्तरोऽबाह्यः कृत्स्रः प्रज्ञानधन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्ये वानुविनश्यतेि ; न प्रेत्य संज्ञास्तीति अरे ब्रवीमीतेि होंवाच याज्ञवल्क्यः । सा होवाच मैत्रेयी, 'अत्रैव मा भगवान् मोहान्तमापीपत ; न वा अहं विजानामी 'ति । स होवाच, *न व। अरे मोहं ब्रवीमि ; अविनाशी वा अरेऽयमात्माऽनुच्छिति धर्मा । अत्र हेि द्वैतमेिव भवति, तदितर इतरं पश्यति, तदितर इतरं जिघ्रति तदितर इतरं रसयते, तदितर इतरमभिवदति तदितर इतरं शृणोति, तदितर इतरं मनुते, तदिर इतरं स्पृशति, तदितर इतरं विजानातेि । यत्र त्वस्य सर्वमात्मैवाभूत्, तत् केन कं पश्येत् ? तत्केन कं विजानीयात् ? येनेदं सर्वं विजानाति, तं केन विजनीयात् ? स एष नेतेि नेत्यात्म । अगृह्यः; न हि गृह्यते । अशीयैः; न हिं शीर्यते । असङ्गः; न हि सज्यते । असितः (अव्यथितः); न व्यथते, न रिष्यति । विज्ञातारमरे केन विजानीयात् इति उक्तानुशासनाऽसि मैलेयेि । एतदेव खल्बरे अमृतत्वम्’ इति होक्त्वा याज्ञवल्क्यो विजहार” इति श्रूयते । एवं चतुर्थपाठके किञ्चिद्वेदेनायं संदर्भः पतिः ।