पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (वाट्यान्वयधिकरणम् १-४-६) स्रीभज्ञा = इतरासां स्त्रीणां यादृशी ताशी अस्याः प्रज्ञा ; ब्रह्मवादिनी न भवतीत्यर्थः । अन्तं करवाणि-युवयोः द्रव्यविभागं करवाणीत्यर्थः । शिष्टमकरे स्पष्टम् । कर्मफलभूतभोक्तृत्वश्रवणादिति । पतिजायापुत्रादिसंबन्धेन भोक्तृत्वस्य प्रतीयमानत्वादिति भाव । भाष्ये मध्येऽपि विज्ञानधन एवेतेि । न च एतदुत्पत्तिविनाशवाक्यं कृतद्रष्टव्यार्थवियं न भवतेि; किन्तु तत्सृज्यात्मविषयमिति वाच्यम् – षष्ठ मैत्रेयीन्नह्मणे , * यथा सैन्धवघनेोऽन्तरोऽबाह्याः कृत्स्रो रसघन एव एवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्रुः मज्ञानघन एव । एतेभ्यो भूतेभ्यः समुत्थाय ) इत्यादिना प्रकृ-स्थ द्रष्टव्यात्मन एव अयमात्मेति परामृष्टस्य उत्पति वेिनाशवर्णनात् । “एवं वा अरे इदं महमनन्तमपरं विज्ञानधन एवैभ्यो भूतेभ्यः ? इतेि चतुर्थे मैत्रेयोब्राह्मणेऽपि प्रकृतपराभशदंशब्दस्य सत्त्वेन उत्पत्ति विनाशप्रतिषादनं द्रष्टव्यात्मविषयमेवेति भावः । ननु कथमुपसंहारगतस्य, 'विज्ञा तारमरे ' इत्यस्य जीवप्रत्यायकत्वं तस्य जीवपरसाधारणत्वादित्यत आह जीवहेत्वनुः गृहीत इति । केचित्तु, 'विज्ञानं यज्ञ तनुते', 'विज्ञानमय ' इत्यादौ जीव स्यैत्र मनोवृत्तिविशेषवत्वरूपविज्ञानमयत्वप्रसिद्धया विज्ञानघनशब्दस्य जीवलिङ्गवाि सया जीवाचित्ववत् विज्ञातृशब्दस्थपि १थात्वोपपत्तौ दोषाभावादिति वदन्ति । तस्य तदन्यत्वमुक्तमिति । उत्तरग्रन्थार्थोधयुक्ततयेति भावः । अन्यत्वदर्शनं नामेति। अन्यत्वनिपेध इति भाष्यस्य, 'योऽन्यत्रात्मनः सर्वे वेदे 'ति श्रुश्यनुसारादन्यत्व दर्शननिषेध इत्यर्थे सिद्धवकृत्य एतदुक्तमिति द्रष्टव्यम् । निष्कृष्टस्वरूपेति । अन्त्व दर्शनं नाम आत्मस्वरूपे स्बान्धभूलदेवादित्वदर्शनम्[तत?] निषेिभ्थत इत्यर्थः । ततश्च श्रुतेः पूर्वपक्षे अयमर्थ – अन्यत्र-द्वितीयार्थे व्रल, प्रत्ययः- आत्मनोऽन्यत् ब्रह्मक्षत्रादि सर्वे य आत्मत्वेन वेद, तं सर्वमपि ब्रह्मक्षत्रादिलक्षणं पराकुर्यादिति । प्रबुद्धस्य । उत्पन्नसत्त्वज्ञानस्येत्यर्थ । परैरुच्यत इति । सांख्यैः पूर्वपक्षि भिरुच्यत इत्यर्थः । अल्पशक्तित्वं मात्रचाभिप्रेतमिति । मात्रपदस्य इतर व्यवच्छेदार्थस्य महाशक्तिव्यवच्छेदकत्वमिति भावः । निव्यापारस्येत्येतत् मुक्तस्येत्येतद्विशेषणतया व्याख्याय, इदानीं पुरुषमावस्येत्येतत्परतया व्याचष्ट यद्वा