पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावऽकाशिका (वाक्यान्वयाधिकरणम् १-४-६) ५९ न च श्रुनिप्रसिद्धं तदिति वाच्यम् – अनधतिनीमविज्ञानक्षुल्यथ मैत्रेयीं प्रति लोक प्रसिद्धरेव द्योतनीयत्वात् । तश्चात्मनः कामयेत्यात्मशब्द्रस्य जीवपरत्वमेोचितम् । तथा हि--सर्वेषामपि स्वात्म। मिथः, पतेिजायादोऽपि थिा इत्यनुभबसाक्षिकमेतत् । तत्र पतिज्ञायादीनां स्वात्मभ्यतिरिक्रमाननं सर्वेषां त्विं पतित्वादियुक्त न भवति । अपितु स्वात्मप्रयुक्तमेव । तेषां स्वेष्टसम्पादकत्वदशायामिव स्वानिष्टसम्पाद्क्व दशायां ग्रियत्वादर्शनात् । स्वात्मनस्तु पतेिजायादीन् प्रतेि इष्टसम्पादकत्वदशाया मनिष्टसंपादकत्वदशायाञ्चाविशेपेण स्वप्रियत्वदर्शनात् पतिजायाद्यपेक्षया . आत्मनो ऽतिशयितपुरुषार्थत्वात् जीवात्मैव द्रष्टतय इत्ययमेवार्थो युज्यत इति अत्र केचित् - अस्वेवमात्मनस्तु कामायेतेि . वाक्ये आत्मशब्दस्य जीब परत्वम् । अमृतत्वमप्युपायत्वादिभिः प्रकरणस्य परमात्मपरवदाब्यवगमात् द्रष्टव्यत्वं परमात्मन एवेत्येतावदिह नः सिषाधयिषेतम् । आत्मनः कामायेति सन्दर्भस्य जीधपरत्वे का नः क्षतिः? न च । पूर्ववाक्यम्य जीवरवेऽनन्वयः शङ्कनीयः । यस्मात् स्वयमेव स्वस्य परमप्रेमास्पदम् तस्मात् स्वस्य महापुरुषार्थसिद्धवै परमात्मा द्रष्टव्य इक्तर्थसंभवाददोषात् । न चात्मशब्दवैरुप्यं दोषः; 'स्याचैकस्य ब्रह्म शब्दवत्' इति न्यायेन वैरूप्यस्य सोढव्थत्वात् । सूत्रस्यैकप्रकरणविषयत्वात् प्रकरणस्य महावाक्यरूपत्वादिति । सूत्रस्य प्रकृतम्हावाक्यविषयत्वादिति निष्कृष्टार्थ । सूत्रेणाविवक्षितः स्यादिति । नन्वेवम्, 'बिज्ञानघन एव' इत्यादिमध्यवाक्यान्वयोऽपि तुल्यन्यायतया कथमविवक्षित स्यादिति चेत् -सत्यम् । । उपक्रमस्य प्रधान्त्वत् तद्विवक्षणमावश्यकम् । अत एवोक्तम्-उपक्रमश्च महावाक्यावयवेषु प्रधानभूत इति । जीवशब्देन परमात्माभिधाननिर्वहणपरमिति । ननु जन्मविनाशक्त्व रूपजीवलिङ्गस्य परमात्मपरत्वनिर्वहणपरत्वमित्येव वक्तव्यम् । जीवाचिशब्दस्य तत्राभावात् । विज्ञानघनशब्दस्य जीववित्वे प्रमाणाभावादिति चेत्-विज्ञानधन शब्दस्य जीवाचित्वाभावेऽपि मनोवृत्तिविशेषरूपविज्ञानधनत्वस्य जीवलिङ्गया जीवलिङ्गवाचिन विज्ञानघनोत्थानविनाशादिशब्दानां जीवविशब्देन ग्रहणेोंपत्तिरिति