पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (वाक्यान्वयाधिकरण १-४-६) ६०१ तया नास्तीत्यर्थः । अविदन्तःप्रवेशस्य स्पष्टत्वादिति । “हन्ताहमिस्तिस्रो देवता अनेन जीवेनात्मना अनुभविश्य' इति अचिदनुप्रवेशस्य स्पष्टं प्रतीतेः स्पष्टतया तज्ज्ञा पनार्थमित्यर्थः । स्फुटतरार्थश्रुत्यन्तरेति । य आत्मनेि तिष्ठन्नित्यादिः स्फुटतरार्थ श्रुनिः ! अभेदश्रुत्यभिप्रायेणेति । जगत्सृष्टिप्रलयाभिधायिश्रुतीनामप्युपादानोपादेय भावपतिपादनमुखेनाभेदमतिपादनपरत्वादिति भावः । एतन्निहस्वीकारहेतुरिति । काशकृत्स्रोयनिर्वाहस्वीकारहेतुरित्यर्थ । जनकयाज्ञवल्क्यसंवाद इति । ततश्ध मैत्रेयोब्राह्मणस्यापि याज्ञवल्क्यकर्तृकत्वात् , * अन्यश्च राजन् स पर; ) इत्यादियाज्ञ चल्यकर्तृकश्लोकसमानार्थत्वं वक्तव्यमिति भावः । अन्यश्च राजन् स पर इति । ननु पूर्वत्र, 'अन्यच्च शश्वदव्यक्तं तथान्यः पञ्चविंशकः । तस्थं समनुपश्यन्ति तमेक इति धवः ' इति लोके अव्यक्तशब्दितदेहस्थमात्मानं लोकानुभवप्रवणबुद्धयो देहाभेदेन पश्यन्तीत्युक्तत्वात् अस्मिन्नपि श्रेोके तदैकाथ्यैत्यभिज्ञानात् , “अन्यश्च राज्ञः स पर ! ६ति श्लोकोऽपि देहात्मविवेकपरं एव किं न स्यात् ? न च परशध्दः परमात्मन्येव प्रयेगार्हः, न देह इति वाच्यम् – “ महतः परमव्यक्त ! भित्यादी शरीरेऽपि परशब्दप्रयोगादिति चेन्न-एकप्रकरणगतोः क्षेोकयोरेकार्थत्वे अन्तर वैयथ्यैसङ्गात् * अभ्यञ्च शश्चदव्यक्त ? मिति श्लोको देहात्मविवेकपरः, * अन्यश्च राजन् स पर' इति श्लोकस्तु, “जुष्टं यदा पश्यत्यन्यमीशम् ”, “पृथगात्मानं प्रेरितारश्च मत्वा ? इत्यादिश्रुत्यनुसारात् जीवविलक्षणसंसारपरमात्मप्रतिपादनपर इत्येव युक्तमिति भावः । ननु अवस्थितिमात्रेण तदात्मकत्वे आकाशस्यापि तदात्मकत्वप्रसङ्ग इत्यत आह – अवस्थानञ्च शरीरप्रतिसम्बन्धितयेति । । ननु शरीरितयाऽवस्थानं हि आत्मतथा अबस्थानम् । ततश्चात्मतयऽवस्थितिहेतुकं सर्वात्मकत्वं किं सर्वशरीरत्वमुत सर्वस्वरूपत्वम् ? नाद्यः; हेतुहेतुमतोरभेदात् । न द्वितीय ; सर्वस्यापि । तत्स्वरूपत्वाभावादिति चेन्न - सर्वात्मकत्वं नाम सर्वसामानाधिकरण्य निर्देशार्हत्वम् । तव सर्वात्मभावनिबन्धनमित्यदोषः ! संवन्द्रियेति । “सर्वेन्द्रियान्तः करणं पुरुषाख्यं हि यज्जगत् । स एव' इति सामानाधिकरण्यं कृत्वा तत्र हेतुमाहः “सर्वभूतात्मा विश्वरूयो यतोऽव्ययः' इति । चारुरूपा सालभञ्जिकेतीति। 76