पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ श्रीरङ्गरामानुजमुनिवेिरचितः तत् रूपशब्दस्य स्वरूपपरत्वदर्शनादिति भाव । 'ततश्च त्वम्' इत्यस्य ततस्त्वमुत्पन्न इति भ्रान्ति व्युदस्यतेि – ततश्च त्वमितीति । ननु सर्वगात्भादित्यनेन व्याप्तिमात्रं सिद्धचेत्; कथं शरीरत्वमित्यत आह – शरीरं हीति । नृपंनभोभृत्येति । नृपप्रतिद्वन्द्वी भृत्यः । नभ:प्रतिद्वन्द्वो कुम्भ इतेि द्रष्टव्यम् । तच्छब्दवाच्यत्वस्य शरीरशारीरिभावनिवन्धनत्वे, * तदनुप्रविश्य सच त्यञ्चाभवत् , 'सर्वे खल्विदं ब्रह्म । इति श्रुत्योः प्रमाणतामाह अत एव तदनुप्रविश्येति । ननु नास्मिन् चाक्ये तच्छब्दवाच्यत्वं शरीरशरीरिभावनिबन्धनमिति प्रतीयते ; अपि तु अनुप्रवेश निबन्धनमिति प्रतीयत इत्याशक्याह अन्तःप्रवेशनेनेति । ननु, ' सर्व खल्विदं ब्रहे' ति वाक्ये ब्रह्माधीनोत्पत्तिस्थितिलयत्वात् ब्रह्म सर्वशब्दवाच्यमित्येव प्रतीयते न तु शरीरशारीरिभावनिबन्धन्नमितीत्याशैक्याह अननशब्दवाच्या स्थितेिरिति । सदायतनशब्देन स्थितिहेतुत्वाभिधानादिति । सामूलाः सत्प्रतिष्ठा इत्याभ्यां वाक्थाभ्यामुत्पत्तिलयोः सद्धीनत्वमुक्त्वा स्थितेः सदधीनत्वं वसु प्रवृतं सदायतन इति वाक्यं धारकत्वं दर्शयति । अतोऽवसीयते, सदायतनशब्दनिर्दिष्ट धारणं स्थित्यर्थमितीति भावः । हेतुत्वेनोपन्यासादिति । सर्वे खल्विदमिति वाक्य इति शेषः । 'शरीरशरीरिंभाव एवेति । हेतुत्वा क्षप्तशरीरशरीरिभाव एवेत्यर्थः । न केवलं सकलश्रुत्यविरोधमुख्यत्वोपपत्तेरिति । हेतुत्वं सिद्धमित्युतरत्रान्वयः। आत्मनो चा अरे दर्शनेने 'ति । “आत्मनेि खल्वरे दृष्ट श्रुते मते विज्ञाते इदं सर्वे विदितम् ?’ इति षष्टपाठो भाप्ये उदाहृत । “आत्मनो वा अरे दर्शने १,ति चतुर्थाध्यायपाठः टीकायामुदाहृत इति द्रष्टव्यम् । ' लक्षणाभिधान मिलि } जगत्कारणत्वलक्षणाभिधानमित्यर्थ । “ अन्यत्मन' इत्यस्यात्मानं विना इत्यस्यार्थस्य क्रुिष्टत्वादाह - यद्वान्तेति । परैरेवमर्थ उत्तः इति ! “दुन्दुभे र्हन्यमानस्य ! इत्यनेन हन्यमानदुन्दुभिप्रभवशब्दसामान्यं लक्ष्यते । दुन्दुभेस्वि त्यनेनापि तदेव लक्ष्यते । दुन्दुभ्यधातः संग्रामभूयिष्ठवीररसाद्यनुकूलेो दुन्दुभिध्वनि विशेषः । ततश्चायमर्थः--यथा; दुन्दुभिशब्दसामान्थस्य । विशेषभूतान् । शब्दान् दुन्दुभिशब्दसामान्यात् बाह्यत्वेन तंतो निष्कृष्य न कश्चिदपि 'ग्रहीतुं शक्नुयात् ; किन्तु दुन्दुभिशब्दसामान्यग्रहणेनैव तद्विशेषशंउद्देो. गृहीत. भवति । द-दा -