पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (वाक्यान्वयाधिकरणम् १-४-६) ६८३ घातसंज्ञकस्य दुन्दुभिशब्दविशेषस्य ग्रहणेन वा तदवान्तरविशेषशब्दो गृहीतो भवति । दुन्दुभिशब्द इत्येब हि दुन्दुभिशब्दविशेषा गृह्यन्ते । दुन्दुभ्थावात शब्द इत्येव हि दुन्दुभ्याघातशब्दविशेषा गृह्यन्ते । ततश्च दुन्दुभिशब्दसामान्यात् दुन्दुभ्याघातशब्दसामान्याच था तद्विशेषा न भिद्यन्ते – एवं चिट्रात्मस्फुरणं बिना स्फुरणशून्यं जगत् चिदात्मनो न व्यतिरिच्यत इति आशयः । शङ्कवीणादि दृष्टान्ता अप्येवमेव योजनीया इत्युक्तमित्यर्थः । दुन्दुभिशब्दे अध्यस्ता इति पाठ दृश्यते । तस्यायमर्थः- दुन्दुभिशब्दादव्यतिरिक्ता इति; विशेषस्य सामान्ये ऽध्यासाभावादिति द्रष्टव्यम् । उपरितनयोरिति । ननु दुन्दुभ्याघातशब्दस्य दुन्दुभ्याघातप्रभवशब्दे लक्षणा; न तु दुन्दुभिशब्दमात्रस्य । ततश्च उपरितनधोः दुन्दुभिशब्दयोरित्ययुक्तम्; दुन्दुभिशब्ददुन्दुभ्याघातशब्दयोरित्येब वक्तव्यमिति चेन्न – अस्यापि वाक्यस्य तत्रैव तात्पर्यात् । पूर्ववाक्यवैयथ्यैश्चेति । यद्यपि दुन्दुभेईन्यमानस्येति वाक्यस्य दुन्दुभिशब्दसामान्यात् निष्कृष्य विशेषशब्दान् ग्रहीतुं शक्नोतीत्यर्थप्रतिपादकतया साफल्यमस्ति – तथापि नात्यन्तप्रयोजनम् दुन्दुभेस्तु ग्रहणेने ? त्यादिना दुन्दुभिशब्दसामान्यग्रहणेनैव विशेषशब्दो गृह्यत इत्यर्थस्यपि सिद्धत्वादित्यत्र तात्पर्यात्। विवक्षितार्थलाभे पदान्तरेण सिद्धे तदधिक पदान्तरवैयथ् दृष्टान्तमाह – न हि गङ्गायामिति । आघानशब्दस्येति । दुन्दुभ्॥घातशब्दस्येत्यर्थः । न च दुन्दुभिशब्दावान्तरविशेषो दुन्दुभ्याधातसंज्ञकः शब्दविशेषोऽतीत्युक्तमिति वाच्यम्--तत्र प्रमाणाभावात् । सत्यपि तस्मिन् । दुन्दुभस्तु ग्रहणेन विशेषा गृहीता भवन्ती'त्यनेनैव चरिताथ्र्यादिति भावः। परणोपादीयभानेत्यादि। दुन्दुभितदाहृन्तृपुरुनान्यत्रापसरणेनेत्यर्थः । ‘वाक्यत्रयं(?) द्रष्टव्यमिति । समानार्थकमिति शेषः । तृतीयान्तयोः इत्यादिशब्दयोरिति । स यथाद्वैधागेरित्यादिना जगदेककारणत्वम्, एकायनमित्याद्भिना करण ग्रामनियमनश्चेत्यन्वय इति भावः । वृत्तिविशेषा बहवो दर्शिता भवन्तीति । स्पर्शनामिति बहुवचनेनैव शीतोष्णवैविध्ये सिद्धे सर्वग्रहणं शीतोष्णाद्यवान्तर 1, टीकायां बाक्यत्रये 'द्रष्टव्ये' इत्युक्तपसेोपासन-इत्येव दृश्यते । तदनुसारेण

  • वाक्यत्रये द्रष्टव्य इती' ति प्रतीकृधारणे समानाथकमिति शेषपूरणस्यावश्यकता नास्ति ।