पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( वाक्यान्वयाधिकरणम १-४-६) केनोपायेन विजानीयात्-मुक्तिमनुभवेदित्यर्थः । एतावदित्यस्य अर्थमाह विजानी यादित्यनेनेति । विजानीयादित्यनेन ब्रह्मानुभवलक्षणप्राप्तेरुत्रात् एतावदित्यनेन तपरमश युक्त इति भाव । अनुपयोगाद्विरुद्धत्वाचेति । जीवोत्पतिमलक चिन्तनं प्रकृनम्यानुपयुक्तम् । न छेक एव भ्रान्तः पुरुषः स्वाभिमतविरुद्धमर्थ कदाचिदङ्गीकरोति इति चोत्तरत्र स्पष्टम् । द्वेधा व्याख्यातमिति । षतिजायापुचवित्तादिभियसामूचितेन भोक्त्रात्मशे पक्रमस्पपूर्वपक्षबीजस्य परिहारपरतया त्रिसून्या का योजन, 'ज्ञिानवन एवैभ्यो भूतेभ्यसमुत्थाय तान्येवानुविनश्यती' ति द्रष्टव्यत्वेन प्रकृतस्य विज्ञानात्म भावेन समुत्थानविनाशरूपमध्यमबाक्यगतजीवलिङ्गस्यान्यथासिद्धिपर द्वितीययोजनेतेि व्याख्यातमित्यर्थ । *इदै सचें यद्यत्मामेति अभेदव्यपदेशस्येति । ' आत्मनः वभाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्य ' इत्युपक्रमे अभेदव्यपदेशस्य अभेदव्यपदेशपर्यवसितस्य भोत्रात्मनोपक्रमस्येत्यर्थः । आत्मनि विज्ञाते सर्वमिदं विज्ञानं भवति, इदं सर्वं यदयमामा इति प्रतिज्ञा(प्रज्ञ)ाभेदोपपादककार्थकारण भावायतैक्यसूचकत्वं प्रथमसूत्रार्थ इति वर्णेिनमित्यर्थः । एवमेव पाठश्चत् समीचीन इतरथ| यथाऽथमर्थः सिद्धयति, तथःऽध्याहृत्य योजनीयम् । उत्क्रमिष्यतोः ब्रह्म भावापत्तीति । अत्रापि भोक्लत्मनोपक्रमस्येति शेषः पूरणीयः ! एवं ब्रह्मण एवा विकृतस्येत्यत्रापि द्रष्टव्यम् । एनं वदतोऽभिप्रायश्शोधनीय इति । यद्यपि शाङ्कर भाष्ये, “काशकृत्स्रास्य चाचार्यस्थाविकृत: पर एवेश्वरो जीव इति मतम्। आइभरथ्यस्यतु यद्यपि जीवंस्य परमात् अनन्यत्वमभिप्रेतम्, तथापि कार्यकारणलक्षणभेदः क्रियानप्यभि प्रेन िगम्यते । औडुलोमिuक्षे पुन. स्पष्टमेबाबस्थानापेक्षौ भेदाभेदौ गम्येते । तत्र काशकृत्स्रोयं मतं श्रुत्यनुसारीति गम्यते । प्रतिपिपादयिषितार्थानुसारात् तत्त्वमस्यादि श्रुतिभ्यः ?' इति ग्रन्थे तदाशयः स्पष्ट एव प्रतीयते । तथा भामत्यामपि, बहि स्फुलिङ्गयोरिव जीवपस्योत्प्युपादानोःादेयभावकृौ भेदाभेदावित्याश्मरथ्धमत । भविष्यन्तमभेदमादाय भेदकालेऽप्यभेदेन व्यपदेश इत्यौडुलोमितमिति प्रतिपादितम् तथापि सम्भावनामात्रादेवमुक्तमिति द्रष्टव्यम् । पुनश्चैवं योजितमितेि । इत्थं हेि शाङ्करभ.ष्यम् ३