पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (प्रकृत्यधिकरणम् १-४-७) ६०७ सूत्रमत्रैव सङ्गतम् । एवं सूत्रयमेतदधिकरणशेष इत्यर्थः ” इति वक्ष्यमाणत्वात् कथमत्र सङ्गतिरिति शङ्का परास्ता यादवप्रकाशैस्त्विति । प्रतिज्ञासिद्धेरिति सूत्रत्रयमपि सूत्रकाराभिमत निर्वाहपरमेव व्याचक्षते ; न तु पूर्वस्त्रद्वयार्थस्य दूष्यत्वम्, तृतीयसूत्रार्थस्य सूत्र काराभिमतत्वमिति । 'विकल्पायोग्यत्वादिति । विकल्पेन दूषयितुमयुक्तत्वा दित्यर्थः । इहाप्युपन्यस्तं स्यादिति । औडुलोमितप्रत्यभिज्ञानादिति भावः । पूर्णत्ववदिति । अंशान्तरसापेक्षत्ववदित्यर्थः । त त्तच्छब्दवाच्यत्वाभावादिति । तृणादिशब्दवाच्यत्वाभावादिति भावः । इति वाक्यान्वयाधिकरणम् । प्रकृत्याधिकरणम् (७) प्रकृतिश्ध प्रतिज्ञादृष्टान्तानुपरोधात् १-४-२३. पेटिकासङ्गतिमिति । पेटिकाभ्यामस्याधिकरणस्य सङ्गतिमित्यर्थः । विक ल्पेनेति । “आनुमानिकमपी 'त्याद्यधिकरणत्रये ब्रह्मकंॉरंणत्वापतिक्षेपेणैव ब्रह्मणः कार णत्वमभ्युपगम्य कचित् प्रधानमपि कारणं भवत्विंत्युत्थितो विकल्पोऽन्ययोगव्यक्छेदेन नेिरस्तः । 'कारणत्वेन च ' इत्याद्यविकरणत्रयेतुं प्रधानमेव'जंगत्कारंणमित्युस्थितं नियमेन कारणत्वमथोगव्यवच्छेदाय निरस्तमिति भावः । ननु द्वितीयाधिकरणस्य कथं प्रासङ्गिकत्वम्; छायानुसारिवाक्यस्य विषयतया त्रिपाद्या साक्षात्सङ्गतत्वादित्या शङ्कय, उभयथाऽपि साक्षात्सङ्गतिरस्तीत्याह---तत्र छायानुसारीति । ननु सिद्धान्तेऽपि प्रधानेश्वरयोरुभयोरपि कारणत्वस्येष्टत्वात् समुच्चयनिरासो न युक्त इत्याशङ्कय सभप्रधानतया समुच्चयस्य निरसनीयत्वं विवक्षितमित्याह खनिष्ठवस्तु द्वयस्येति । परस्परशरीरशरीरिभाचानापन्नवस्तुद्वयस्येत्यर्थः । सर्वशक्तित्वादिति । सर्वं शक्तिर्यस्य तत् सर्वशक्ति, तत्वादित्यर्थः । 1. विकल्पयोग्यत्वादित्येव टीकायां दृश्यते । ।