पृष्ठम्:भावप्रकाशिका-भागः २.pdf/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१९ श्रीरङ्गरामानुजभुनिविरचित तदनुप्रविश्येत्यनुप्रवेशस्य समानाधिकरण्यहेतुत्वप्रतिपादकांचे सृष्टिसमनुप्रवेशal एवोच्यते ; न तु पूर्वववयोक्तानुप्रवेशव्यक्तिरिति भावः । निमित्तवमाने परोक्ताया इति । निमित्तकणमते प्रमाणस्येन परोसता इत्यर्थः । भाष्ये तदात्मानं स्वयमकुरुतेश्येवमादिभिरैकार्यादिति । सफलश्रुसिभिरैकध्द्यादि- त्यर्थः । अन्यैरिति । शङ्करयादवादिभिरित्यर्थः।। योनिश्च हि गथिते १४-२८, ‘ योनिष्ट इंद्र सदने अकारि " इति मन्त्रस्ययमर्थः । हे इन्द्र ते सवने तत्र उपवेशाय । योनिः स्थानमकारीत्यर्थः । योनिशब्दस्य उपादानवचित्राभावे दृश्वासः । अत्र चोदयन्ति - यदुक्तमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञया दृष्टान्तस्य चानुपरोधार्थं ब्रह्मण उपादानवं वक्तव्यमिति - तन्न; प्राधान्येन सादृश्येन वा तदुपपत्तेः । लोके हि, अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टं सर्वं दृष्टा इति ख्यपदेशो दृश्यते ; प्रधानदर्शनस्य तदितदर्शनकार्यघूर्वहवत् । एवमिह पि प्रशदर्शनस्य तदितरदर्शनकार्यनिष्पादनसमर्थनया तथाव्यपदेशप्रप्तेः। अथा सादृश्यनिमित्सोऽपि व्यपदेशो दृश्यते – “ एतेन गवादयोऽपि क्रतवो र्याख्यानाः ” इति । यथ, ज्योतिष्यस्यानेन इतरेषां गवादीनां तत्सादृश्येन व्याल्पसधम् --- एवमिहाथि ब्रह्मणि शते सत्वादिना सादृश्यात् तदितरेषां ज्ञातवसंभवात् । अत एव इष्टान्तानु परोधोऽप्यसङ्गतः । न शेकस्मिन् मृत्पिण्डे ज्ञाते सर्वे मृण्मयं विज्ञातं भक्षति । सर्वस्य मृतकार्थस्य एकमृत्पिण्डारब्धत्वाभावात् । एकस्य नखनिकृन्तनस्य लोहमणे सर्वलोहमयकाष्र्णायसोमादनवjभावात् । न च सर्वं मृण्मयमित्यत्र सर्वशद एक नृविण्डारब्धकार्थपर इति वाच्यम् - तथा कथनयं प्रमाणाभावात् । अत एव, ‘अभिध्यपदेशाच्च ’ इति सूत्रोक्तो बहुभवनसङ्कल्पो ऽपि न प्रमाणम् ; अन्सयमि रूपेणैव बहुभावस्य सङ्कल्पविषयवसंभवे तेजोबलादिरूपेण बटुभवजस्य सङ्करु विषयचे प्रमाणाभावत् । उक्तवाभियुतैः-- “ बहु स्यामिति सङ्कल्प्य तेजःप्रभृतिसर्जनम् । गुरुः स्यामिति सङ्कल्प्य शिष्यसम्पादनं यथा ॥"