पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ श्रीरङ्गरामानुजमुनिधिरचेिता इयं च श्रुििरति। “आयु तदा नाडीषु'ति श्रुतिरित्यर्थः । अत वक्तव्यं सर्व जगद्वचित्वादित्यत्र स्पष्टम् । हृदयशब्दो हृदूतमात्मपर इति । इदमुपलक्षणम् । प्रासादगतखट्वास्थे पुंसेि प्रासादस्य इतिबन् हृदयस्थपरमात्मस्थे पुंसेि हृदयस्थमिति व्यवहारो मुस्य एव । यादवप्रकाशय इत्यादि । परमात्मत्वसाधनमनुपपन्नमिति । जीव व्युन्सननुपपन्नमित्यर्थः । तदनुवादेन परमात्मत्वसाधनायेति । प्रतिबिम्ब व्यावृतिं सिद्धवत्कृत्य जीवव्यावृतिसाधनायेत्यर्थः । यद्वा पूर्वोपन्यस्तहेतूननूद्य तैहेतुभिः जीवव्यावृतिसाधनायेत्यर्थ । ननु, * अत एव न देवता भूतं चे' ति सूत्तुल्ययोगक्षेमं भविष्यतीत्यस्यरसादाह -प्राणो ब्रह्मति वाक्यस्येति । अतो ब्रह्मणः प्रतिपाद्यत्वं न पुनः प्रतिज्ञातव्यमिति । यद्यप्यत एव स ब्रहत्य प्रतिबिम्बव्यावृतिहेतुभिरेव जीवव्यावृतिः सिध्यतीत्येवं जीवव्यावृत्तिरेव प्रतिज्ञायते; न ब्रखेत्युक्तम्--तथापि वक्ष्यमाणरीत्या परमसाध्योपाद्कोपपादकत्वमेव युज्यत इति भावः । न हि न्यायनिबन्धनेति । ततश्च सुखविशिष्टाभिधानोपपत्तीनामपि तस्मिन्नेव सूत्रे विवक्षितत्वमभ्युपेथम्; न तु निपुंसिकस्थुखविशिष्टभिधानस्वरूपमात्र परत्वमिति भाव । श्रुत्यन्तरे दक्षिणवामयोरक्ष्णोरिति ! “इन्धो ह वै नामैष योऽयं दक्षिणेऽझिन् पुरुषस्तं वा एतमिन्धं सन्तमिन्द्रमित्याचक्षते, अथ तद्वामेऽक्षिि पुरुषस्य रूपमेधस्य पती विराट्' इति, प्रदेशान्तरे, “तैौ मिथुनं समेतां , ततः प्राणोऽजायत, स इन्द्रः' इत्यादिः ज्योतिरधिकरणोदाहृता श्रुतिष्टव्या । यत्सर्वेष् धिकरणेष्विति। तथा च, ‘अत एव च स ब्रह्म' इत्यस्य परमसाध्योपपाकत्वमयुक्तमिति भावः। उपपाद्यत्वात् दुर्बलभिति। अन्तर्यामिब्राह्मणस्यापि उत्तराधिकरणन्यायोपपाद्य वादिति भावः । अक्षिपुरुषविद्याया गतिचिन्तनानुवादेन तदङ्गत्वमुच्यत इत्यस्य अक्षि पुरुषविद्या, गतिचिन्तनाङ्गत्वेन विधीयत इत्यर्थो विवक्षितः, उत गतिचिन्तनमक्षि पुरुषविद्याङ्गत्वेन विधीयत इति विकल्ल्याचं दूषयति-अक्षिपुरुषस्य परमात्मत्व निर्णयादिति । द्वितीयं दूषयति-गतिचिन्तनस्य सर्वपरविद्याङ्गत्वादिति । इति अन्तरधिकरणम् ।