पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमते भगवद्रामानुजाय नमः | श्रीमते रङ्गरामानुजमहादेशिकाय नमः ॥ श्रुतप्रकाशिकाव्याख्या भावमाशिक । द्वितीयाध्याये द्वितीयपादः।। (१) रचनानुपपथधिकरणम् ।

  • :-

रचनानुपपत्तेश्च नानुमनं प्रवृत्तेश्च २-२१: भाष्ये मूलप्रकृतिर्नाम सुखदुःखमोहम्मकानीत्यादि । यथाहुः सहायाः प्रीत्यप्रीतिविषदामकाः प्रकाशप्रवृत्तेनियमथः। अन्योन्याभिभवाश्रयजननमिथुनत्यश्च गुणः । सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेध तमः प्रदीपचर्यतो वृत्तिः । इति । अयंमर्थः -गुणः सस्वरजस्तमांसि, प्रीत्यप्रीतिविषादात्मकाः । क्रमत् सुख दुःखमोहान्मानः -- तस्मादेव प्रकाशप्रवृत्तिनियमप्रयोजनाः । स्वकै सर्व प्रकाशयति । प्रवेशकार्ये सत्वं प्रवर्तयति रजोगुणः । लघोः सत्वगुणस्य रजसा सर्वत्र प्रवर्तने प्रसते यथाकथं गुरुः तमोगुणो नियच्छति । ततश्च तमोनियतं रजः कचिदेव प्रवर्तयति । तेन कचिदेव प्रवर्तितं सर्वं किंचिदेव प्रकाशयति । अतो न सर्वे सर्वदा सर्वस्य प्रकाशन इति व्यवस्था। एवं गुणानां प्रयोजनं स्वरूपत्रोक्तम् । तेषां व्यापार उच्यते -'अन्योन्याभिभघश्रयजननमिथुनवृतयश्च । वृत्तिः = व्यापारःप्रत्येकमभि भवादिभिः संबध्यते, अन्योन्याभिभववृत्तयो गुणाः, तेषामन्यतमेन प्रयोजनवशत् उद्धृतेनन्यतमोऽभिभूयते, तथा हि - सत्वं रजस्तमसी कदाचिंदभिभूय शान्तां स्ववृतिं लभते ; एवं रजः सत्त्वतमसी अभिभूय घोरां स्ववृतिम्; तथा तमः सवरजसी अभिभूय मूढां स्ववृत्तिमिति । अन्योन्याश्रयवृत्तयश्च गुणः । यदपेक्षया यस्य व्यापारो भवति, स तस्याश्रयो विवक्षितः । अन्योन्यजननवृत्तयश्च गुणाः।