पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकशि का धनानुपपत्यधिकरणम् २-२-१ ) ६६७ दुःखत्रधाभावरूपकैवल्यम् । अत्रैगुण्यादेव - च मध्यस्थ्यसिद्धिः । वैगुण्ये सुखदुःखयोः संवत् रागद्वेषसत्स्वेनैौदासीन्यरूपमध्यस्थ्ये न सिद्धचेत् । विवेकि स्त्रचकर्तृत्वं सिद्ध्यति | । पुरुषविमोक्षनिमित्तमिति । “ वसविद्युद्धिनिमितं क्षीरस्य यथा प्रवृत्ति- रज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य " इति श्लोकः । ननु चेत नस्याकर्तृस्वेन, अहं ऑनमअहं करोमीति कर्तृवचैतययोः समानाधि करण्यानुभवः कथमित्याशङ्कय चैतन्यक्षर्तुवयोः भिन्नधिकरणत्वस्य युक्तिसिद्धान् सामानाधिकरण्यप्रतीतिर्भान्तिरित्याह तस्मात्तत्संग्रगादिति । तस्मात् = कर्तृत्व चैतन्ययोः भिन्नाधिकरणत्वस्य युक्तिसिद्धवादित्यर्थः । तत्संयोगात् = चेतन संयोगात् । अचेतनं लिङ्गम् = अन्तःकरणदिक चेतनावदत्र भवति । तथैवो- दासीनोऽcपात्मा कर्तृभूतत्रिगुणद्रव्यसन्निधानात् फलेव भवतीत्यर्थः । पुरुषस्य दर्श नार्थमित्ययं श्लोकः पूर्वमेव व्यख्यातः भाष्ये जननमरणप्रतिनियमादिव्यवस्थासिद्धयर्थमिति । अन्ममरण करणानां प्रतिनियमावयुगपत्प्रवृत्तेश्च । जीवबहुत्वं सिद्धं त्रैगुण्यविपर्ययश्चापि ॥ " इति सञ्जयश्लोकः । अयमर्थः – देहेन्द्रिादिसम्बन्धो जग्म । तथागो मरणम् । करणानि इन्द्रियाणि । यद्येक एव पुरुषः सर्वगतः स्यात् - तर्हि एकस्मिन् जायमाने सर्वेपि जायेरन् । एकस्मिन् म्रियमाणे सर्वेपि स्रियेरन् । एकसिआन्धे बधिरे वा । सर्वे तादृशः भवेयुः । अयुत्प्रवृत्तेश्च { एकल शरीरे प्रयतमाने पुरुषे स एव सर्व शरीरेषु एक इति सर्वत्र प्रयतेत । ततश्च सर्वाण्यपि शरीराणि युगपत् वलयेत् । वैगुण्यत्रिपर्ययाश्चापि । त्रय एव गुणाः वैगुण्यम् । स्वार्थे ष्यञ् । तस्य विपर्ययः अन्यथाभावः । केचित् खलु सत्वबहुलाः - यथोर्धरेतसः । केचित् रजो बहुलाः, यथा मनुष्याः। केचित् - तमोबहुलाःयथा तिर्यग्योनयः । नेयं व्यवस्था पुरुवैक्ये संभवतीत्यर्थः । ननु कारणावस्थप्रधानस्य कार्यजगहूपेण परिणतौ चेतनाधिष्ठाननिरपेक्षवं शश्वनिराकरणार्थं न, ‘‘पयोम्बुवत् " इति सूत्रम् । अपितु तच्छलनिरकरणम् ,