पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ श्रीरङ्गरामानुजमुनिविरचेिदः पृथिव्यांतिष्ठन् पृथिव्या अन्तरो यं पृथिवीन वेद् यस्य पृथिवी शरीरम्, यः पृथिवीमन्तरे यमयति एष त आत्मान्तर्याम्यमृतः ? इत्युपक्रम्य, योऽप्सु तिष्ठन्-ोऽग्नौ तिष्ठन्नित्येवं क्रमेण अभ्ध्वन्यन्तरिक्षवायुद्यु-आदित्यद्विवचन्द्रतारकाकाशतमस्तेजःपर्यन्तान् पर्यायानु पदिश्य, ‘इत्यधिदैवतमित्युपसंहृत्य, 'अथाधिभूतमित्युपक्रम्य, ‘यस्सर्वेषु भूतेषु' इति पर्यायमुपन्थस्य, 'इत्यविभूत' मेित्युपसंहृत्य , 'अथाध्यात्म'मित्युपक्रम्य प्राणवाक्चक्षुः श्रोत्रमनस्त्वविज्ञानरेतःपर्यायानुपन्यस्य, “एष त आत्मान्तर्याम्यमृत अदृष्टोद्रष्टा श्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्ति श्रोता नाभ्योऽोऽस्ति मन्ता नान्योऽतोऽम्ति विज्ञाता । एष त आत्मा अन्तर्थाम्यमृतः । अतोऽन्यदार्तम्'इथुपसंहृतम्। माध्यन्दिनपाठे तु लोकवेद्यज्ञपर्यायास्त्रयोऽधिका इति। प्रत्यगात्ममात्रे अन्तर्थामित्वपूर्वपक्षासंभवात् उपचितसुकृतजीवविशेषपरः प्रत्यः गात्भशब्द इत्याह प्रत्यगात्मशब्द इति । यदा निषेधोऽनुपपन्न इति । द्रष्टत्वस्य रुपदिसाक्षात्कारकर्तृल्वरूपत्व इति शेषः। नियमनस्यार्थसिद्धत्वमुपपादयति-परश्रेरणा रूपस्येति । ननु जीवः कोऽत्रान्तर्यामी स्यात् । न तावदुपासकजीवः ; तस्य, 'यः पृथिव्यां तिष्ठन्' इत्यादिवाक्यप्रतिपाद्यपृथिव्यदिस्थितिन्नियमनोरसंभवात् । नापि पृथिव्याद्यभिमानी देवताविशेषः; तस्य पृथिव्यादिस्थितिनियमनादिसंभवेऽपि उपदेश्यों पासकजीवभिन्नतयां, ‘स त आत्मेति निर्देशासंभवात्। नापि जीवसमुदायः; तस्यापि पृथिव्याद्यतिष्ठत्वेन समुदाये, ‘स त आत्मेति निर्देशानुपपत्तेरित्याशैक्य-उपासकस्य व पृथिव्यामभिमानिनो वा जीवसमुदायस्य वा नैकस्यान्तर्यामित्वं पूर्वपक्षे विवक्षितम् किं तु जीवजातीयानां वस्तूनामन्तर्यामित्वं विवक्षितम् । न च तथात्वे स त आत्मेति निर्देशानुपपतिः उपदेश्यस्य उपासकजीवस्यान्तर्यामिबहुजीवात्मकत्वाभावादिति वाच्यम् - सजातीयस्त्वमसीत्यर्थस्य वक्ष्यमाणत्वेनादोषादित्यभिप्रयन्नाह--प्रतिपर्यायै यच्छब्दावृत्येति । यथ, थतिष्ठति स ते पुत्रः, यः पचति स ते पुत्र इत्युक्त पुत्रभेदः प्रतीयते--तदित्यर्थः । व्यापकनियामकवस्त्वन्तराभावाभिप्रायेणेति न हि जीवजातीयावच्छिन्नस्वस्य ज्यापकं नियामकं वा किञ्चिदस्तीत्यर्थः । यतु जीवविशेषान् प्रत्यन्तमित्वमिति । य आदित्ये तिष्ठन्, यश्चन्द्रे तिष्ठन् इत्यादिभिः प्रतिपाद्यमानं जीवविशेषान्तर्यामित्वमिति भावः । अष्टमूत्र्यादेरिवेति ।