पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- एवं प्राप्त इतीत्यस्यान्सरं मृत्र इति ऋन् िकोशे पञ्यते । न तस्य प्रयोजनं पश्यामः । भाष्ये अधिदैवाधिलोकादिपदचिह्निनेष्विति । ननु, थः पृथिव्यां तिष्ठन्नित्युपक्रम्य पृथिव्यम्ठान्यन्तरिक्ष युद्यु – आदित्यदिक्च-द्रतमस्तेजांसि निर्दिश्य चरमे तेजःपर्याय एव, इत्यधिदैवतमिति पदं श्रूयते ; न तु पूर्वेषु पर्यायेषु। अतस्तेषां कथमधिदैवपदचिह्नितत्वमिति चेन्न - इत्यधिदैवमितीतिकरणेन पूर्वेषामपि पर्यायाणां परामशत् तत् दचिहितत्वोपपतेरिति भावः । अनेन सर्वसूलेष्विति । अधिदैवधिलोकादिष्वित्यत्र दैवलोकभूतादिषु विषयेष्वन्तर्यामी परमात्मेत्यपि व्याख्यायाः सम्भवत् तत्परित्यागेनाधिदैवादिशब्दस्य वाक्यपरत्वमभ्युपगभ्य वाक्य प्रतिपाद्योऽन्तर्यामीति व्याख्यानात् सर्वसूत्रेष्वपि तत्तद्वाक्यप्रतिपाद्यपरत्वमेव साध्यं विवक्षितम्, अध्यायस्य वाक्यसमन्वथप्रतिपादनभस्त्वादिति भाष्यकाराभिप्राय इति भावः । पदद्वयेति । एतेनधिलेोकपदशून्यः परेषां सूत्रपाठस्तावदप्रामाणिक इति दर्शितम् । बहुपर्यायप्रदर्शनार्थेनाधिदैवशब्देनेति । पृथिव्यभ्ठदन्यन्तरिक्ष वायुद्य-आदित्यद्विक्चन्द्रतारकाकाशपर्यायाणाम् अधिदैवानुप्रविष्टानां बहुत्वादित्यर्थः । अवधारणं फलितमिति भाव इति । यद्यप्यौपनिषदानेि चाक्यानि सर्वेप्रशासेि तृवदिकं यस्मात्मन एव वदन्तीत्युक्तौ दोधाभावान् फलितमित्युक्तिनै संगच्छते तथापि परमात्मन एव सर्वप्रशासितृत्वं सर्वात्मत्वमित्येवमाकारेण वदन्तीति भाष्यार्थ मालोच्य एवभुक्तमिति इष्टव्यम् । स्वाभाविकञ्चामृतत्वमिति भाष्यस्यायं भावः स्वाभाविकौपाधिकयोर्मध्ये औषधिकस्योपाधिग्रतिपन्यधीनप्रतिपत्तिकत्वेन विलम्बित. प्रतीतिकतया ततोऽपि स्वाभाविकस्यैव ग्राह्मत्वदिति । किमार्थमिति। व्याप्ति बलात् परमात्मनोऽपि दर्शनश्रवणादयः करणैर्विना नोपपद्यन्त इसेि अर्थस्वभावायत्त मित्यर्थः । द्रष्टत्वादिकं न करणायत्तमितीति । यद्यपि, 'न च परस्यात्मनः करणा यतं द्रष्टत्वादिकमिति भाष्यपाठ:-तथापि अर्थतः प्रतीकग्रहणमिति द्रष्टव्यम् । ननु, ‘न च परस्यात्मनः करणायतं द्रष्टस्वादिक'िित भाष्यं युक्तम्, दर्शनकर्तृत्वरूपस्य द्रष्टत्वस्य करणायत्त्वनियमात् पस्मात्मनि तादृशद्रष्टत्वानभ्युपगमाचेत्यते ध्याचष्टे