पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

T वैशेषिकाङ्गविधानानन्तरमाम्नाते - “खमानग्निरच्छयेलेने 'ति वाक्ये पूर्वनिर्दिष्ट वैशेपिकाङ्गसदृशानां वैशेषिकाङ्गानामेवेतशब्देन ग्रहणं पूर्वनिर्दिष्टसादृश्यन्: न तु प्रकृतानामपीतेि पूर्वतन्त्रे सप्तमे (७-१-२) नेिणतधा तन्यायेनान्यशब्देनापि सर्वनाम्ना पूर्वनिर्दिष्टसदृशस्य नेियन्तुरेव ग्रहणमिति भावः । ननु, एा त आत्मा स तं आत्मेति व्यतिरेकनिर्देशस्य तद्धर्मव्यपदेशादिति सूत्रखण्डविवक्षितस्य भये युचितप्तय उपन्यासो न युक्त इत्याशक्य तस्य सूत्रकृदभिमतत्वं दर्शयति--एतत्पादा द्याधिकरण इति । ननु शब्दविशेषादिति सूत्रे *सर्वखल्विदं बड़े ? ति श्रुति वाक्यार्थनिर्धारणार्थतया, “ए आत्मे :ि व्यतिरेकनिर्देशस्यानभिमतत्वात्तस्य युक्ति तया उपन्यासो न युक्त इत्यत आ – तस्य प्रदर्शनार्थत्वादितेि । उभयेऽपि हेि भेदेनैनमथीयते १२-२. ननु पुमान्नदेवो न नर इत्यत्रेव देवादिशब्दानां शरीरमात्रपरत्वे बाँधकाभाव इत्याशैक्याह – तचापवादाभावे इति । तदखारस्यापवादथेति । न केवलं व्यतिरेकनिर्देशस्वारस्यबाधकाभावः, स्वारस्यसाधकश्चास्तीत्यर्थः । असम्भवनिरस्त इति । परमात्मादिनिकवहितस्यान्तर्यामित्वसम्भावनपदस्य कस्यवेिदभावादित्यर्थ । योगसिद्ध इत्यस्य अणिमाचैश्वर्ययोगशाली सिद्ध इति वा अष्टाङ्गयोगशाली सिद्ध इति वा सम्भावितोऽर्थः स्यात्, अर्थद्वयमपि प्रकृष्टपुण्येषु विग्रहादियुक्तदेवेष्वेव सम्भवतीति तत्रैवाऽन्तर्भावात् शिरोभेदकल्पनं विफलमेित्यर्थः । कार्यकरणवश्यं जीवत्वेहेतुतयोक्तमिति । देहेन्द्रियवत एव नियन्तृत्वसम्भवत् अन्तर्यामित्वे देहेन्द्रियवत्वमपेक्षितम् । तादृशश्च देहेन्द्रिथवत्त्वं जीवस्यैव सम्भवतीति नेश्वरस्यान्तर्यामित्वं सम्भवतीत्युक्तमिति भावः, पुरेवादिशङ्करभाष्यानुसारात्। पृथिव्या दिष्वेकैकस्य शरीरवावगमादिति । अयं भाव – देहातिरिक्तनियमने हि शरी रेन्द्रियाद्यपेक्षा, न तु स्वदेहनियमनेऽपि । न हि तक्ष्णो वास्यादिनियमने शरीरापेक्षावत् स्वशरीरथिमनेऽपि शरीरान्तरापेक्ष। दृष्टवरी । तथा च पृथिव्यादीनां परमात्मशरी रत्वादेव परस्य तैरेव सशरीरत्वेन न तनियमने शरीरान्तरापेक्षेति । ननु पृथिव्यादिषु हि (दिभिः) सशरीरत्वे परस्य जीवत्प्रसङ्ग इत्याशंक्याह – तत्कृतजीवत्वशङ्काय।