पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भां प्रभः । अदृश्यत्वादिगुणकाधिकरणम् (५ न भयोरुभयात्मकत्वमितेि । अट्वत्वादिगुणकस्यापि प्रकृतिपुरुपेो भयात्मकत्वं अक्षरात्परतः परस्यापि प्रकृतिपुरुषोभयामकत्वमिति न भ्रमेि त्यमित्यर्थ हकतयेति । निषिध्यमानष्टश्यत्वादिग्त या अचिदाश्रयोपस्थापकता तदुपहिणनये. त्यर्थः । इत्थमन्न विषयशुद्धिः-अव्याख्यातांशे काचिदर्थोपि लिख्यते । आथर्वणे

  • ब्रह्मा देवानां प्रथमः सम्बभूव वेिश्स्य कर्ता भुवनस्य गोसा ।

स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथवीय ज्येष्ठपुत्राय प्राह । अथर्वणे यां प्रवदेत ब्रह्मा अथर्वा तां पुरोवाचाङ्गिरसे तत्वतो ब्रह्मवेिद्याम् । स भारद्वाजाय सत्यवाहाय प्राह, भारद्वाजोऽङ्गिरसे परावराम् ।। शौनको ह वै महाशालोऽङ्गिरसें विवेिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतेि । तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च, तत्रापरा ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेद शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराणे यायो मीमांसा धर्मशास्त्राणीति । अथ परा या तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं त्रिभु सर्वगतं सुसूक्ष्मं तदव्यथे यदूतयोनिं परिपश्यन्ति धीराः। यस्मात्परं नापरमति किञ्चित् यस्माष्टणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव खठो िदवि ितष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् । यथोर्णनभिः सृजते गृह्यते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषान् केशलोमानेि तथाक्षरान् सम्भवतीह विश्वम् ।