पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ श्रीरङ्गरामानुजमुनिविरचितः तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ! अन्नात्मणो मनस्सत्यं लोकाः कर्मसु चामृनम् । यः सर्वज्ञः सर्ववेित् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नञ्च जायते । ! तदेतत्सत्यं मन्त्रेषु कर्माणि यान्यपश्यन् तानि त्रेस्रायां बहुधा कवयो सन्ततानि । तान्याचरत नियतं सत्यकामाः ए६ वः पन्थाः सुकृतो ब्रह्मलोकः । यथा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाज्यभागवन्तरेणाहुतीः प्रतिपादयेत् । यस्यान्निहोत्रगदर्शपूर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जनछ। अहुतमवैश्वदेवमश्रद्धयाऽविधिना हुतमासप्तमात्स्य लोकान् हिनस्ति । सप्त ते अने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होलासप्तधा त्वा यजन्ति सप्त योनीरापृणस्बा घृतेन । (अमेस्समापि विह्वाभेदान्नामत आह-) काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लोलायम्झना इति सप्त जिह्वाः । एतासु यश्चरते भ्राजमानासु यथाकालश्चाहुतयो ह्याददायन् । तन्नयन्त्येताः सूर्यस्य रश्मयः यत्र देवानां पतिरेकोऽधिवास । (एता भ्राजमानासु सप्तसु जिह्वासु यथाकालं यः कर्माचरति, तमादानाः आहुतयः सूर्यस्मयो भूत्वा इन्द्रदिलेोकं नयन्तीत्यर्थः ।) एहेहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥