पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४८ . श्रीरङ्गरामानुजमुनि विरचिता तादात्विकदुःखजनकस्यापि बलवदिष्टभूतस्वर्गजनकतया न हिंसात्वमित्यभिप्रेत्य भगवता भाष्यकृताऽयं परिहार उपन्यस्तः । न तु हिंसात्वमभ्युपगम्य उत्सर्गाप- वादन्यायेन परिहारः । यथा हिंसाविधितन्निषेधविषयभेदन्यायानभिज्ञेन बाद- कथायाम् , 'इयेनेन यजेते ति बाक्यमयुक्तार्थम् ; श्वेनपक्षिणः पुरोडाशादिवत् यागीयद्रव्यत्वे अहिंसाशास्त्रविरोधादिति शङ्किते श्वेनाङ्गपशुषु आवश्यकेनापि विषय भेदन्यायोपन्यासेन न तत्समाधानमुचितम् ; किन्तु वस्तुस्थितिमनुसरता वाक्यशेषमुदाहृत्य कर्मनामबोपन्यासेनैव तत् समाधीयते, एवमिहाप्युत्सर्गापवादन्यायेन परिहार्यऽप्यस्मिन् आक्षेपे वस्तुस्थितिमनुसरन् भगवान् भाष्यकारो हिंसात्वाभावमेव प्रत्यपीपददिति न किञ्चिदवद्यम् ।। थोनेशरीरम् ३.१-२७. संतारिजीवशरीरं चेति । यत पुण्यापुण्यरूपे कर्मणी तत्रैव सुखदुःखे, यत्र च सुखदुःखे तत्रैव तद्धेतुभूतं शरीरमिति, . आकाशादिषु कर्मकीर्तना- भावेन तत्फलभूतसुखदुःखाधनुभवाभावात् न तद्धेतुभूतं शरीरमिति भावः ॥ इति अन्याधिष्ठिताधिकरणम् ।। इति दशोपनिषद्भाष्यकारैः श्रीमद्रारामानुजमुनिभिर्विरचितायां श्रुतप्रकाशिकाव्यात्यायां भावप्रकाशिकायां तृतीयाध्यायस्य प्रथमः पादः शुभं भवतु ॥